Upadeshasahasri
चैतन्यं सर्वगं सर्वं सर्वभूतगुहाशयम् ।
यत् सर्वविषयातीतं तस्मै सर्वविदे नमः ॥
समापय्य क्रियाः सर्वा दाराग्न्याधानपूर्विकाः ।
ब्रह्मविद्यामथेदानीं वक्तुं वेदः प्रचक्रमे ॥
कर्माणि देहयोगार्थं देहयोगे प्रियाप्रिये ।
ध्रुवे स्यातां ततो रागो द्वेषश्चैव ततः क्रियाः ॥
धर्माधार्मौ ततोऽज्ञास्य देहयोगस्तथा पुनः ।
एवं नित्यप्रवृत्तोऽयं संसारश्चक्रवद् भृशम् ॥
अज्ञानं तस्य मूलं स्यादिति तद्धानमिष्यते ।
ब्रह्मविद्यात आरब्धा ततो निःश्रेयसं भवेत् ॥
विद्यैवाज्ञानहानाय न कर्माप्रतिकूलतः ।
नाज्ञानस्याप्रहाणे हि रागद्वेषक्षयो भवेत् ॥
रागद्वेषक्षयाभावे कर्म दोषद्भवं ध्रुवम् ।
तस्मान् निःश्रेयसार्थाय विद्यैवात्र विधीयते ॥
ननु कर्म तथा नित्यं कर्तव्यं जीवने सति ।
विद्यायाः सहकारित्वं मोक्षं प्रति हि तद् व्रजेत् ॥
यथा विद्या तथा कर्म चोदितत्वाविशेषतः ।
प्रत्यवायस्मृतेश्चैव कार्यं कर्म मुमुक्षुभिः ॥
ननु ध्रुवफला विद्या नान्यत् किंचिदपेक्षते ।
नाग्निष्टोमो यथैवान्यद् ध्रुवकार्योऽप्यपेक्षते ॥
तथा ध्रुवफला विद्या कर्म नित्यमपेक्षते ।
इत्येवं केचिदिच्छन्ति न कर्म प्रतिकूलतः ॥
विद्यायाः प्रतिकूलं हि कर्म स्यात् साभिमानतः ।
निर्विकारात्मबुद्धिश्च विद्येतीह प्रकीतिता ॥
अहं कर्ता ममेदं स्यादिति कर्म प्रवर्तते ।
वस्त्वधीना भवेद् विद्या कर्तधीनो भवेद् विधिः ॥
कारकाण्युपमृद्नाति विद्याऽब्बुद्धिमिवोषरे ।
तत्सत्यमतिमादाय कर्म कर्तुं व्यवस्यति ॥
विरुद्धत्वादतः शक्यं कर्म कर्तुं न विद्यया ।
सहैवं विदुषा तस्मात् कर्म हेयं मुमुक्षुना ॥
देहाद्यैरविशेषेण देहिनो ग्रहणं निजम् ।
प्राणिनां तदविद्योत्थं तावत् कर्मविधिर्भवेत् ॥
नेति नेतीति देहादीनपोह्यात्मावशेषितः ।
अविशेषात्मबोधार्थं तेनाविद्या निवर्तिता ॥
निवृत्ता सा कथं भूयः प्रसूयेत प्रमाणतः ।
असत्येवाविशेषे हि प्रत्यगात्मनि केवले ॥
न चेद् भूयः प्रसूयेत कर्ता भोक्तेति धीः कथम् ।
सदस्मीति च विज्ञाने तस्माद् विद्यासहायिका ॥
अत्यरेचयदित्युक्तो न्यासः श्रुत्यात एव हि ।
कर्मभ्यो मानसान्तेभ्य एतावदिति वाजिनाम् ॥
अमृतत्वं श्रुतं तस्मात् त्याज्यं कर्म मुमुक्षुभिः ।
अग्निष्टोमवदित्युक्तं तत्रेदमभिधीयते ॥
नैककारकसाध्यत्वात् फलान्यत्वाच् च कर्मणः ।
विद्या तद्विपईतातो दृष्टान्तो विषमो भवेत् ॥
कृष्यादिवत् फलार्थत्वादन्यकर्मोपबृंहणम् ।
अग्निष्टोमस्त्वपेक्षेत विद्यान्यत् किमपेक्षते ॥
प्रत्यवायस्तु तस्यैव यस्याहंकार इष्यते ।
अहंकारफलार्थित्वे विद्येते नात्मवेदिनः ॥
तस्मादज्ञानहानाय संसारविनिवृत्तये ।
ब्रह्मविद्याविधानाय प्रारब्धोपनिषत् त्वियम् ॥
सदेरुपनिपूर्वस्य क्विपि चोपनिषद् भवेत् ।
मन्दीकरणभावाच् च गर्भादेः शातनात् तथा ॥
प्रैषेद्धुमशक्यत्वान् नेति नेतीति शेषितम् ।
इदं नाहमिदं नाहमित्यद्धा प्रतिपद्यते ॥
इदंधीरिदमात्मोत्था वाचारम्भञगोचरा ।
निषिद्धात्मोद्भवत्वात् सा न पुनर्मानतां व्रजेत् ॥
पूर्वबुद्धिमबाधित्वा नोत्तरा जायते मतिः ।
दृषिरेकः स्वयंसिद्धः फलत्वात् स न बाध्यते ॥
इदंवनमतिक्रम्य शोकमोहादिदूषितम् ।
वनाद् गन्धारको यद्वत् स्वमात्मानं प्रपद्यते ॥
ईश्वरश्चेदनात्मा स्यान् नासावस्मीति धारयेत् ।
आत्मा चेदीश्वरोऽस्मीति विद्या सान्यनिवर्तिका ॥
आत्मनोऽन्यस्य चेद् धर्मा अस्थूलत्वादयो मताः ।
अज्ञेयत्वेऽस्य किं तैः स्यादात्मत्वे त्वन्यधीह्नुतिः ॥
मिथ्याध्यासनिषेधार्थं ततोऽस्थूलादि गृह्यताम् ।
परत्र चेन् निषेधार्थं शून्यतावरणं हि तत् ॥
बुभुत्सोर्यदि चान्यत्र प्रत्यगात्मन इष्यते ।
अप्राणो ह्यमनाः शुभ्र इति चानर्थकं वचः ॥
अहंप्रत्ययबीजं यदहंप्रत्ययवत्स्थितम् ।
नाहंप्रत्ययवह्न्युष्टं कथं कर्म प्ररोहति ॥
दृष्टवच् चेत् प्ररोहः स्यान् नान्यकर्मा स इष्यते ।
तन्निरोधे कथं तत् स्यात् पृच्छामो वस्तदुच्यताम् ॥
देहाद्यारम्भसामर्थ्याज् ज्ञानं सद्विषयं त्वयि ।
अभिभूय फलं कुर्यात् कर्मान्ते ज्ञानमुद्भवेत् ॥
आरब्धस्य फले ह्येते भोगो ज्ञानं च कर्मणः ।
अविरोधस्तयोर्युक्तो वैधर्म्यं चेतरस्य तु ॥
देहात्मज्ञानवज् ज्ञानं देहात्मज्ञानबाधकम् ।
आत्मन्येव भवेद् यस्य स नेच्छन्नपि मुच्यते ॥
मूत्राशङ्को यथोदङ्को नाग्रहीदमृतं मुनिः ।
कर्मनाशभयाज् जन्तोरात्मज्ञानाग्रहस्तथा ॥
बुद्धिस्थश्चलतीवात्मा ध्यायतीव च दृश्यते ।
नौगतस्य यथा वृक्षास्तद्वत् संसारविभ्रमः ॥
नौस्थस्य प्रातिलोम्येन नगानां गमनं यथा ।
आत्मनः संसृतिस्तद्वद् ध्यायतीवेति हि श्रुतिः ॥
चैतन्यप्रतिबिम्बेन व्याप्तो बोधो हि जायते ।
बुद्धेः शब्दादिनिर्भासस्तेन मोमुह्यते जगत् ॥
चैतन्याभासताहमस्तादर्थ्यं च तदस्य यत् ।
इदमंशप्रहाणे न परः सोऽनुभवो भवेत् ॥
छित्त्वा त्यक्तेन हस्तेन स्वयं नात्मा विशेष्यते ।
तथा शिष्टेन सर्वेण येन येन विशेष्यते ॥
तस्मात् त्यक्तेन हस्तेन तुल्यं सर्वं विशेषणम् ।
अनात्मत्वेन तस्माज् ज्ञो मुक्तः सर्वविशेषणैः ॥
विशेषणमिदं सर्वं ज्ञात आत्मन्यसद् भवेत् ।
अविद्यास्तमतः सर्वं ज्ञात आत्मन्यसद् भवेत् ॥
ज्ञातैवात्मा सदा ग्राह्यो ज्ञेयमुत्सृज्य केवलः ।
अहमित्यपि यद् ग्राह्यं व्यपेताङ्गसमं हि तत् ॥
यावान् स्यादिदमंशो यः स स्वतोऽन्यो विशेषणम् ।
विशेषप्रक्षयो यत्र सिद्धो ज्ञश्चित्रगुर्यथा ॥
इदमंशोऽहमित्यत्र त्याज्यो नात्मेति पण्डितैः ।
अहं ब्रह्मेति शिष्टोऽंशो भूतपूर्वगतेर्भवेत् ॥
बुद्ध्यारूढं सदा सर्वं दृश्यते यत्र तत्र वा ।
मया तस्मात् परं ब्रह्म सर्वज्ञश्चास्मि सर्वगः ॥
यथामबुद्धिचाराणां साक्षी तद्वत् परेष्वपि ।
नैवापोढुं न वादातुं शक्यस्तस्मात् परो ह्यहम् ॥
विकारित्वमशुद्धत्वं भौतिकत्वं न चात्मनः ।
अशेषबुद्धिसाक्षित्वाद् बुद्धिवच् चाल्पवेदना ॥
मणौ प्रकाश्यते यद्वद् रक्ताद्याकारतातपे ।
मयि संदृश्यते सर्वमातपेनेव तन् मया ॥
बुद्धौ दृश्यं भवेद् बुद्धौ सत्यां नास्ति विपर्यये ।
द्रष्टा यस्मात् सदा द्रष्टा तस्माद् द्वैतं न विद्यते ॥
अविवेकात् पराभावं यथा बुद्धिरवेत् तथा ।
विवेकात् तु परादन्यः स्वयं चापि न विद्यते ॥
चितिस्वरूपं स्वत एव मे मते रसादियोगस्तव मोहकारितः ।
अतो न किंचित् तव चेष्टितेन मे फलं भवेत् सर्वविशेषहानतः ॥
विमुच्य मायामयकार्यतामिह प्रशान्तिमायाह्यसदीहितात् सदा ।
अहं परं ब्रह्म सदा विमुक्तवत् तथाजमेकं द्वयवर्जितं यतः ॥
सदा च भूतेषु समोऽस्मि केवलो यथा च खं सर्वगमक्षरं शिवम् ।
निरन्तरं निष्कलमक्रियं परं ततो न मेऽस्तीह फलं तवेहितैः ॥
अहं ममैको न तदन्यदिष्यते तथा न कस्याप्यहमस्म्यसङ्गतः ।
असङ्गरूपोऽहमतो न मे त्वया कृतेन कार्यं तव चाद्वयत्वतः ॥
फले च हेतौ च जनो विषक्तवानिति प्रचिन्याहमतो विमोक्षणे ।
जनस्य संवादमिमं प्रक्ळ्प्तवान् स्वरूपतत्त्वार्थविबोधकारणम् ॥
संवादमेतं यदि चिन्तयेन् नरो विमुच्यतेऽज्ञानमहाभयागमात् ।
विमुक्तकामश्च तथा जनः सदा चरत्यशोकः सम आत्मवित् सुखी ॥
सूक्ष्मताव्यापिते ज्ञेये गन्धादेरुत्तरोत्तरम् ।
प्रत्यगात्मावसानेषु पूर्वपूर्वप्रहाणतः ॥
शारीरा पृथिवी तावद् यावद् बाह्या प्रमाणतः ।
अबादीनि च तत्त्वानि तावज् ज्ञेयानि कृत्स्नशः ॥
वाय्वादीनां यथोत्पत्तेः पूर्वं खं सर्वगं तथा ।
अहमेकः सदा सर्वश्चिन्मात्रः सर्वगोऽद्वयः ॥
ब्रह्माद्याः स्थावरान्ता ये प्राणिनो मम पूः स्मृताः ।
कामक्रोधादयो दोषा जायेरन् मे कुतोऽन्यतः ॥
भूतदोषैः सदास्पृष्टं सर्वभूतस्थमीश्वरम् ।
नीलं व्योम यथा बालो दूष्टं मां वीक्षते जनः ॥
मच्चैतन्यावभास्यत्वात् सर्वप्राणिधियां सदा ।
पूर्मम प्राणिनः सर्वे सर्वज्ञस्य विपाप्मनः ॥
जनिमज् ज्ञानविज्ञेयं स्वप्नज्ञानवदिष्यते ।
नित्यं निर्विषयं ज्ञानं तस्माद् द्वैतं न विद्यते ॥
ज्ञातुर्ज्ञातिर्हि नित्योक्ता सुषुप्ते त्वन्यशून्यतः ।
जाग्रज्ज्ञातिस्त्वविद्यातस्तद् ग्राह्यं चासदिष्यताम् ॥
रूपवत्त्वाद्यसत्त्वान् न दृष्ट्यादेः कर्मता यथा ।
एवं विज्ञानकर्मत्वं भूम्नो नास्तीति गम्यते ॥
दृशिस्वरूपं गगनोपमं परं सकृद्विभातं त्वजमेकमक्षरम् ।
अलेपकं सर्वगतं यदद्वयं तदेव चाहं सततं विमुक्त ओम् ॥
दृषिस्तु शुद्धोऽहमविक्रियात्मको न मेऽस्ति कश्चिद् विशयः स्वभावतः ।
पुरस्तिरश्चोर्ध्वमधश्च सर्वतः सुपूर्णभूमा त्वज आत्मनि स्थितः ॥
अजोऽमरश्चैव तथाजरोऽमृतः स्वयंप्रभः सर्वगतोऽहमद्वयः ।
न कारणं कार्यमतीव निर्मलः सदैव तृप्तश्च ततो विमुक्त ओम् ॥
सुषुप्तजारत्स्वपतश्च दर्शनं न मेऽस्ति किंचित् स्वमिवेह मोहनम् ।
स्वतश्च तेषां परतोऽप्यसत्त्वतस्तुरीय एवास्मि सदा दृगद्वयः ॥
शरीरबुद्धीन्द्रियदुःखसंततिर्न मे न चाहं मम निर्विकारतः ।
असत्त्वहेतोश्च तथैव संततेरसत्त्वमस्याः स्वपतो हि दृश्यवत् ॥
इदं तु सत्यं मम नास्ति विक्रिया विकारहेतुर्न हि मेऽद्वयत्वतः ।
न पुण्यपापे न च मोक्षबन्धने न चास्ति वर्णश्रमताशईरतः ॥
अनादितो निर्गुणतो न कर्म मे फलं च तस्मात् परमोऽहमद्वयः ।
यथा नभः सर्वगतं न लिप्यते तथा ह्यहं देहगतोऽपि सूक्ष्मतः ॥
सदा च भूतेषु समोऽहमीश्वरः क्षराक्षराभ्यां परमो ह्यथोत्तमः ।
परात्मतत्त्वश्च तथाद्वयोऽपि सन् विपर्ययेणाभिवृतस्त्वविद्यया ॥
अविद्यया भावनया च कर्मभिर्विविक्त आत्माव्यवधिः सुनिर्मलः ।
दृगादिशक्तिप्रचितोऽहमद्वयः स्थितः स्वरूपे गगनं यथाचलम् ॥
अहं परं ब्रह्म विनिश्चयात्मदृञ् न जायते भूय इति श्रुतेर्वचः ।
न चैव बीजे त्वसति प्रजायते फलं न जन्मास्ति ततो ह्यमोहता ।
ममेदमित्थं च तवाद ईदृशं तथाहमेवं न परोऽपि चान्यथा ।
विमूढतैवस्य जनस्य कल्पना सदा समे ब्रह्मणि चाद्वये शिवे ॥
यदद्वयं ज्ञानमतीव निर्मलं महात्मनां तत्र न शोकमोहता ।
तयोरभावे न हि कर्म जन्म वा भवेदयं वेदविदां विनिश्चयः ॥
सुषुप्तवज् जाग्रति यो न पश्यति द्वयं तु पश्यन्नपि चाद्वयतः ।
तथा च कुर्वन्नपि निष्क्रियश्च यः स आत्मविन् नान्य इतीह निश्चयः ॥
इतीदमुक्तं परमार्थदर्शनं मया हि वेदान्तविनिश्चितं परम् ।
विमुच्यतेऽस्मिन् यदि निश्चितो भवेन् न लिप्यते व्योमवदेव कर्मभिः ॥
ईक्षितृत्वं स्वतःसिद्धं जन्तूनां च ततोऽन्यता ।
अज्ञानादित्यतोऽन्यत्वं सदसीति निवर्त्यते ॥
एतावद् ध्यमृतत्वं न किंचिदन्यत् सहायकम् ।
ज्ञानस्येति ब्रुवच्छास्त्रं सलिङ्गं कर्म बाधते ॥
सर्वेषां मनसो वृत्तमविशेषेण पश्यतः ।
तस्य मे निर्विकारस्य विशेषः स्यात् कथंचन ॥
मनोवृत्तं मनश्चैव स्वप्नवज् जाग्रतीक्षितुः ।
सम्प्रसादे द्वयासत्त्वाच् चिन्मात्रः सर्वगोऽद्वयः ॥
स्वप्नः सत्यो यथा ऽऽबोधाद् देहात्मत्वं तथैव च ।
प्रत्यक्षादेः प्रमाणत्वं जाग्रत् स्यादा ऽऽत्मवेदनात् ॥
व्योमवत् सर्वभूतस्थो भूतदोषैर्विवर्जितः ।
साक्षी चेताऽगुणः शुद्धो ब्रह्मैवास्मीति केवलः ॥
नामरूपक्रियाभ्योऽन्यो नित्यमुक्तस्वरूपवान् ।
अहमात्मा परं ब्रह्म चिन्मात्रोऽहं सदाद्वयः ॥
अहं ब्रह्मास्मि कर्ता च भोक्ता चास्मीति ये विदुः ।
ते नष्टा ज्ञानकर्मभ्यां नास्तिकाः स्युर्न संशयः ॥
धर्माधर्मफलैर्योग इष्टोऽदृष्टो यथात्मनः ।
शास्त्राद् ब्रह्मत्वमप्यस्य मोक्षो ज्ञानात् तथेष्यताम् ॥
या माहाराजनाद्यास्ता वासनाः स्वप्नदर्शिभिः ।
अनुभूयन्त एवेह ततोऽन्यः केवलो दृषिः ॥
कोशादिव विनिष्कृष्टः कार्यकारणवर्जितः ।
यथासिर्दृश्यते स्वप्ने तद्वद् बोद्धा स्वयंप्रभः ॥
आपेषात् प्रतिबुद्धस्य ज्ञस्य स्वाभाविकं पदम् ।
उक्तं नेत्यादिवाक्येन कल्पितस्यापनेतृणा ॥
महाराजादयो लोका मयि यद्वत् प्रकल्पिताः ।
स्वप्ने तद्वद् द्वयं विद्याद् रूपं वासनया सह ॥
देहलिङ्गात्मना कार्या वासनारूपिणा क्रिया ।
नेतिनेत्यात्मरूपत्वान् न मे कार्या क्रिया क्वचित् ॥
न ततोऽमृतताशास्ति कर्मणोऽज्ञानहेतुतः ।
मोक्षस्य ज्ञानहेतुत्वान् न तदन्यदपेक्षते ॥
अमृतं चाभयं नार्तं नेतीत्यात्मा प्रियो मम ।
विपरीतमतोऽन्यद् यत् त्यजेत् तत् सक्रियं ततः ॥
प्रकाशस्थं यथा देहं सालोकमभिमन्यते ।
द्रष्ट्राभासं तथा चित्तं द्रष्टाहमिति मन्यते ॥
यदेव दृष्यते लोके तेनाभिन्नत्वमात्मनः ।
प्रपद्यते ततो मूढस्तेनात्मानं न विन्दति ॥
दशमस्य नवात्मत्वप्रतिपत्तिवदात्मनः ।
दृश्येषु तद्वदेवायं मूढो लोको न चान्यथा ॥
त्वं कुरु त्वं तदेवेति प्रत्ययावेककालिकौ ।
एकनीडौ कथं स्यातां विरुद्धौ न्यायतो वद ॥
देहाभिमानिन् दुःखं नादेहस्यस्वभावतः ।
स्वापवत् तत्प्रहाणाय तत् त्वमित्युच्यते दृशेः ॥
दृशेश्छाया यदारूढा मुखच्छायेव दर्शने ।
पश्यंस्तं प्रत्ययं योगी दृष्ट आत्मेति मन्यते ॥
तं च मूढं च यद्यन्यं प्रत्ययं वेत्ति नो दृशेः ।
स एव योगिनां श्रेष्ठो नेतरः स्यान् न संशयः ॥
विज्ञातेर्यस्तु विज्ञाता स त्वमित्युच्यते यतः ।
स स्यादनुभवस्तस्य ततोऽन्योऽनुभवो मृषा ॥
दृशिरूपे सदा नित्ये दर्शनादर्शने मयि ।
कथं स्यातां ततो नान्य इष्यतेऽनुभवस्ततः ॥
यत्स्थस्तापो रवेर्देहे दृशेः स विषयो यथा ।
सत्त्वस्थस्तद्वदेवेह दृशेः स विषयस्तथा ॥
प्रतिषिद्धेदमंशो ज्ञः खमिवैकरसोऽद्वयः ।
नित्यमुक्तस्तथा शुद्धः सोऽहं ब्रह्मास्मि केवलः ॥
विज्ञातुर्नैव विज्ञाता परोऽन्यः संभवत्यतः ।
विज्ञाताहं परो मुक्तः सर्वभूतेषु सर्वदा ॥
यो वेदालुप्तदृष्टित्वमात्मनोऽकर्तृतां तथा ।
ब्रह्मवित्त्वं तथा मुक्त्वा स आत्मज्ञो न चेतरः ॥
ज्ञातैवाहमविज्ञेयः शुद्धो मुक्तः सदेत्यपि ।
विवेकी प्रत्ययो बुद्धेर्दृश्यत्वान् नाशवत्त्वतः ॥
अलुप्ता त्वात्मनो दृष्टिर्नोत्पाद्या कारकैर्यतः ।
दृश्यया चान्यया दृष्ट्या जन्यतास्याः प्रकल्पिता ॥
देहात्मबुद्ध्यपेक्षत्वादात्मनः कर्तृता मृषा ।
नैव किंचित् करोमीति सत्या बुद्धिः प्रमाणजा ॥
कर्तृत्वं कारकापेक्षमकर्तृत्वं स्वभावतः ।
कर्ता भोक्तेति विज्ञानं मृषैवेति सुनिश्चितम् ॥
एवं शास्त्रानुमानाभ्यां स्वरूपेऽवगते सति ।
नियोज्योऽहमिति ह्येषा सत्या बुद्धिः कथं भवेत् ॥
यथा सर्वान्तरं व्योम व्योम्नोऽप्यभ्यन्तरो ह्यहम् ।
निर्विकारोऽचलः शुद्धोऽजरो मुक्तः सदाद्वयः ॥
अचक्षुष्ट्वान् न दृष्टिर्मे तथाश्रोतस्य का श्रुतिः ।
अवाक्त्वान् न तु वक्तिः स्यादमनस्त्वान् मतिः कुतः ॥
अप्राणस्य न कर्मास्ति बुद्ध्यभावे न वेदिता ।
विद्याविद्ये ततो न स्तश्चिन्मात्रज्योतिषो मम ॥
नित्यमुक्तस्य शुद्धस्य कूटस्थस्याविचालिनः ।
अमृतस्याक्षरस्यैवमशरीरस्य सर्वदा ॥
जिघत्सा वा पिपासा वा शोकमोहौ जरामृती ।
न विद्यन्तेऽशरीरत्वाद् व्योमवद् व्यापिनो मम ॥
अस्पर्शत्वान् न मे स्पृष्टिर्नाजिह्वत्वाद् रसज्ञता ।
नित्यविज्ञानरूपस्य ज्ञानाज्ञाने न मे सदा ॥
या तु स्यान् मानसी वृत्तिश्चाक्षुष्का रूपरञ्जना ।
नित्यमेवात्मनो दृष्ट्या नित्यया दृश्यते हि सा ॥
तथान्येन्द्रिययुक्ता या वृत्तयो विषयाञ्जनाः ।
स्मृती रागादिरूपा च केवलान्तर्मनस्यपि ॥
मानस्यस्तद्वदन्यस्य दृश्यन्ते स्वप्नवृत्तयः ।
द्रष्टुर्दृष्टिस्ततो नित्या शुद्धानन्ता च केवला ॥
अनित्या साविशुद्धेति गृह्यतेऽत्राविवेकतः ।
सुखी दुःखी तथा चाहं दृश्ययोपाधिभूतया ॥
मूढया मूढ इत्येवं शुद्धया शुद्ध इत्यपि ।
मन्यते सर्वलोकोऽयं येन संसारं ऋच्छति ॥
अचक्षुष्ट्वादिशास्त्रोक्तं सबाह्याभ्यन्तरं ह्यजम् ।
नित्यमुक्तमिहात्मानं मुमुक्षुश्चेत् सदा स्मरेत् ॥
अचक्षुष्ट्वादिशास्त्राच् च नेन्द्रियाणि सदा मम ।
अप्राणो ह्यमनाः शुभ्र इति चाथर्वणे वचः ॥
शब्दादीनामभावश्च श्रूयते मम काठके ।
अप्राणो ह्यमना यस्मादविकारी सदा ह्यहम् ॥
विक्षेपो नास्ति तस्मान् मे न समाधिस्ततो मम ।
विक्षेपो वा समाधिर्वा मनसः स्याद् विकारिणः ॥
अमनस्कस्य शुद्धस्य कथं तत् स्याद् द्वयं मम ।
अमनस्त्वाविकारित्वे विदेहव्यापिनो मम ॥
इत्येतद् यावदज्ञानं तावत् कार्यं ममाभवत् ।
नित्यमुक्तस्य शुद्धस्य बुद्धस्य च सदा मम ॥
समाधिर्वासमाधिर्वा कार्यं वान्यत् कुतो भवेत् ।
मां हि ध्यात्वा च बुद्ध्वा च मन्यन्ते कृतकृत्यताम् ॥
अहं ब्रह्मास्मि सर्वोऽस्मि शुद्धो बुद्धोऽसितः सदा ।
अजः सर्वग एवाहमजरश्चामृतोऽक्षयः ॥
मदन्यः सर्वभूतेषु बोद्धा कश्चिन् न विद्यते ।
कर्माध्यक्षश्च साक्षी च चेता नित्योऽगुणोऽद्वयः ॥
न सच् चाहं न चासच् च नोभयं केवलः शिवः ।
न मे संध्या न रात्रिर्वा नाहर्वा सर्वदा दृशेः ॥
सर्वमूर्तिवियुक्तं यद् यथा खं सूक्ष्ममद्वयम् ।
तेनाप्यस्मि विनाभूतं ब्रह्मैवाहं तथाद्वयम् ॥
ममात्मास्य त आत्मेति भेदो व्योम्नो यथा भवेत् ।
एकस्य सुषिभेदेन तथा मम विकल्पितः ॥
भेदोऽभेदस्तथा चैको नाना चेति विकल्पितम् ।
ज्ञेयं ज्ञाता गतिर्गन्ता मय्येकस्मिन् कुतो भवेत् ॥
न मे हेयं न चादेयमविकारी यतो ह्यहम् ।
सदा मुक्तस्तथा शुद्धः सदा बुद्धोऽगुणोऽद्वयः ॥
इत्येवं सर्वदात्मानां विद्यात् सर्वं समाहितः ।
विदित्वा मां स्वदेहस्थं ऋषिर्मुक्तो ध्रुवो भवेत् ॥
कृतकृत्यश्च सिद्धश्च योगी ब्राह्मण एव च ।
यदैवं वेद तत्त्वार्थमन्यथा ह्यात्महा भवेत् ॥
वेदार्थो निश्चितो ह्येष समासेन मयोदितः ।
संन्यासिभ्यः प्रवक्तव्यः शान्तेभ्यः शिष्टबुद्धिना ॥
स्वप्नस्मृत्योर्घटादेर्हि रूपाभासः प्रदृश्यते ।
पुरा नूनं तदाकारा धीर्दृष्टेत्यनुमीयते ॥
भिक्षाम३अन् यथा स्वप्ने दृष्टो देहो न स स्वयम् ।
जाग्रद्दृश्यात् तथा देहाद् द्रष्टृत्वादन्य एव सः ॥
मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा ।
रूपादीन् व्याप्नुवच् चित्तं तन्निभं दृश्यते ध्रुवम् ॥
व्यञ्जको वा यथालोको व्यङ्ग्यस्याकारतामियात् ।
सर्वार्थव्यञ्जकत्वाद् धिरर्थाकारा प्रदृश्यते ॥
धीरेवार्थस्वरूपा हि पुंसा दृष्टा पुरापि च ।
न चेत् स्वप्ने कथं पश्येत् स्मरतो वाकृतिः कुतः ॥
व्यञ्जकत्वं तदेवास्या रूपाद्याकारदृश्यता ।
द्रष्टृत्वं च दृशेस्तद्वद् व्याप्तिः स्याद् धिय उद्भवे ॥
चिन्मात्रज्योतिषा सर्वाः सर्वदेहेषु बुद्धयः ।
मया यस्मात् प्रकाश्यन्ते सर्वस्यात्मा ततो ह्यहम् ॥
करणं कर्म कर्ता च क्रिया स्वप्ने फलं च धीः ।
जाग्रत्येवं यतो दृष्टा द्रष्टा तस्मात् ततोऽन्यथा ॥
बुद्ध्यादीनामनात्मत्वं हेयोपादेयरूपतः ।
हानोपादानकर्तात्मा न त्याज्यो न च गृह्यते ॥
सबाह्याभ्यन्तरे शुद्धे प्रज्ञानैकरसे घने ।
बाह्यमाभ्यन्तरं चान्यत् कथं हेयं प्रकल्प्यते ॥
य आत्मा नेति नेतीति परापोहेन शेषितः ।
स चेद् ब्रह्मविदात्मेष्टो यतेतातः परं कथम् ॥
अशनायाद्यतिक्रान्तं ब्रह्मैवास्मि निरन्तरम् ।
कार्यवान् स्यां कथं चाहं विमृशेदेवमञ्जसा ॥
पारगस्तु यथा नद्यास्तत्स्थः पारं यियासति ।
आत्मज्ञश्चेत् तथा कार्यं कर्तुमन्यदिहेच्छति ॥
आत्मज्ञस्यापि यस्य स्याद् धानोपादानता यदि ।
अ मोक्षार्हः स विज्ञेयो वान्तोऽसौ ब्रह्मणा ध्रुवम् ॥
सादित्यं हि जगत् प्राणस्तस्मान् नाहर्निशैव वा ।
प्राणज्ञस्यापि न स्यातां कुतो ब्रह्मविदोऽद्वये ॥
न स्मरत्यात्मनो ह्यात्मा विस्मरेद् वाप्यलुप्तचित् ।
मनोऽपि स्मरतीत्येतज् ज्ञानमज्ञानहेतुजम् ॥
ज्ञातुर्ज्ञेयः परो ह्यात्मा सोऽविद्याकल्पितः स्मृतः ।
अपोढे विद्यया तस्मिन् रज्ज्वां सर्प इवाद्वयः ॥
कर्तृकर्मफलाभावात् सबाह्याभ्यन्तरं ह्यजम् ।
ममाहं चेति यो भावस्तस्मिन् कस्य कुतो भवेत् ॥
आत्मा ह्यात्मीय इत्येष भावोऽविद्याप्रकल्पितः ।
आत्मैकत्वे ह्यसौ नास्ति बीजाभावे कुतः फलम् ॥
द्रष्टृ श्रोतृ तथा मन्तृ विज्ञात्रेव तदक्षरम् ।
द्रष्ट्राद्यन्यन् न तद् यस्मात् तस्माद् द्रष्टाहमक्षरम् ॥
स्थावरं जङ्गमं चैव द्रष्टृत्वादिक्रियायुतम् ।
सर्वमक्षरमेवातः सर्वस्यात्माक्षरं त्वहम् ॥
अकार्यशेषमात्मानमक्रियात्मक्रियाफलम् ।
निर्ममं निरहंकारं यः पश्यति स पश्यति ॥
ममाहंकारयत्नेच्छाः शून्या एव स्वभावतः ।
आत्मनीति यदि ज्ञातमाध्वं स्वस्थाः किमीहितैः ॥
योऽहंकर्तारमात्मानं तथा वेत्तारमेव यः ।
वेत्त्यनात्मज्ञ एवासौ योऽन्यथाज्ञः स आत्मवित् ॥
यथान्यत्वेऽपि तादात्म्यं देहादिष्वात्मनो मतम् ।
तथाकर्तुरविज्ञानात् फलकर्मात्मतात्मनः ॥
दृष्टिः श्रुतिर्मतिर्ज्ञातिः स्वप्ने दृष्टा जनैः सदा ।
तासामात्मस्वरूपत्वादतः प्रत्यक्षतात्मनः ॥
परलोकभयं यस्य नास्ति मृत्युभयं तथा ।
तस्यात्मज्ञस्य शोच्याः स्युः सब्रह्मेन्द्रा अपीश्वराः ॥
ईश्वरत्वेन किं तस्य ब्रह्मेन्द्रत्वेन वा पुनः ।
तृष्णा चेत् सर्वतश्छिन्ना सर्वदैन्योद्भवाशुभा ॥
अहमित्यात्मधीर्या च मम्मेत्यात्मीयधीरपि ।
अर्थशून्ये यदा यस्य स आत्मज्ञो भवेत् तदा ॥
बुद्ध्यादौ सत्युपाधौ च तथासत्यविशेषता ।
यस्य चेदात्मनो ज्ञाता तस्य कार्यं कथं भवेत् ॥
प्रसन्ने विमले व्योम्नि प्रज्ञानैकरसेऽद्वये ।
उत्पन्नात्मधियो ब्रूत किमन्यत् कार्यमिष्यते ॥
आत्मानं सर्वभूतस्थममित्रं चात्मनोऽपि यः ।
पश्यन्निच्छत्यसौ नूनं शीतीकर्तुं विभावसुम् ॥
प्रज्ञाप्राणानुकार्यात्मा छायेवाक्षादिगोचरः ।
ध्यायतीवेति चोक्तो हि शुद्धो मुक्तः स्वतो हि सः ॥
अप्राणस्यामनस्कस्य तथासंसर्गिणो दृशेः ।
व्योमवद् व्यापिनो ह्यस्य कथं कार्यं भवेन् मम ॥
असमाधीं न पश्यामि निर्विकारस्य सर्वदा ।
ब्रह्मणो मे विशुद्धस्य शोध्यं चान्यद् विपाप्मनः ॥
गन्तव्यं च तथैवाहं सर्वगस्याचलस्य च ।
नोर्ध्वं नाधस्तिरो वापि निष्कलस्यागुणत्वतः ॥
चिन्मात्रज्योतिषो नित्यं तमस्तस्मिन् न विद्यते ।
कथं कार्यं ममैवाद्य नित्यमुक्तस्य शिष्यते ॥
अमनस्कस्य का चिन्ता क्रिया वानिन्द्रियस्य का ।
अप्राणो ह्यमनाः शुभ्र इति सत्यं श्रुतेर्वचः ॥
अकालत्वाददेशत्वाददिकत्वादनिमित्तः ।
आत्मनो नैव कालादेरपेक्षा ध्यायतः सदा ॥
यस्मिन् देवाश्च वेदश्च पवित्रं कृत्स्नमेकताम् ।
व्रजेत् तन् मानसं तीर्थं यस्मिन् स्नात्वामृतो भवेत् ॥
न चास्ति शब्दादिरनन्यवेदनः परस्परेणापि न चैव दृश्यते ।
परेण दृश्यास्तु यथा रसादयस्तथैव दृश्यत्वत एव दैहिकाः ॥
अहं ममेत्येषणयत्नविक्रियाः सुखादयस्तद्वदिह प्रदृश्यतः ।
दृश्यत्वयोगाच् च परस्परेण ते न दृश्यतां यान्ति ततः परो भवेत् ॥
अहंक्रियाद्या हि समस्तविक्रिया सकर्तृका कर्मफलेन संहिता ।
चितिस्वरूपेण समन्ततोऽर्कवत् प्रकाश्यमानासिततात्मनो ह्यतः ॥
दृशिस्वरूपेण हि सर्वदेहिनां वियद् यथा व्याप्य मनांस्यवस्थितः ।
अतो न तस्मादपरोऽस्ति वेदिता परोऽपि तस्मादत एक ईश्वरः ॥
शरीरबुद्ध्योर्यदि चान्यदृश्यता निरात्मवादाः सुनिराकृता मया ।
परश्च सिद्धो ह्यविशुद्धिकर्मतः सुनिर्मलः सर्वगतोऽसितोऽद्वयः ॥
घटादिरूपं यदि ते न गृह्यते मनः प्रवृत्तं बहुधा स्ववृत्तिभिः ।
अशुद्ध्यचिद्रूपविकारदोषता मतेर्यथा वारयितुं न पार्यते ॥
यथा विशुद्धं गगनं निरन्तरं न सज्जते नापि च लिप्यते तथा ।
समस्तभूतेषु सदैव तेष्वयं समः सदात्मा ह्यजरोऽमरोऽभयः ॥
अमूर्तमूर्तानि च कर्मवासना दृशिस्वरूपस्य बहिः प्रकल्पिताः ।
अविद्यया ह्यात्मनि मूढदृष्टिभिरपोह्य नेतीति अवशेषितो दृशिः ॥
प्रबोधरूपं मनसोऽर्थयोगजं स्मृतौ च सुप्तस्य च दृश्यतेऽर्थवत् ।
तथैव देहप्रतिमानतः पृथग् दृशेः शरीरं च मनश्च दृश्यतः ॥
स्वभावशुद्धे गगने घनादिके मलेऽपायते सति चाविशेषता ।
यथा च तद्वच् छ्रुतिवारितद्वये सदाविशेषो गगनोपमे दृशौ ॥
नान्यदन्यद् भवेद् यस्मान् नान्यत् किंचिद् विचिन्तयेत् ।
अन्यस्यान्यत्वभावे हि नाशस्तस्य ध्रुवो भवेत् ॥
स्मरतो दृश्यते दृष्टं पटे चित्रमिवार्पितम् ।
यत्र येन च तौ ज्ञेयौ सत्त्वक्षेत्रज्ञसंज्ञकौ ॥
फलान्तं चानुभूतं यद् युक्तं कर्त्रादिकारकैः ।
स्मर्यमाणं हि कर्मस्थं पूर्वं कर्मैव तत् ततः ॥
द्रष्टुश्चान्यद् भवेद् दृश्यं दृश्यत्वाद् घटवत् सदा ।
दृश्याद् द्रष्टासजातीयो न धीवत् साक्षितान्यथा ॥
स्वात्मबुद्धिमपेक्ष्यासौ विधीनां स्यात् प्रयोजकः ।
जात्यादिः शववत् तेन तद्वन् नानात्मतान्यथा ॥
न प्रियाप्रिय इत्युक्तेर्नादेहत्वं क्रियाफलम् ।
देहयोगः क्रियाहेतुस्तस्माद् विद्वान् क्रियास्त्यजेत् ॥
कर्मस्वात्मा स्वतन्त्रश्चेन् निवृत्तौ च तथेष्यताम् ।
अदेहत्वे फलेऽकार्ये ज्ञाते कुर्यात् कथं क्रियाः ॥
जात्यादीन् सम्परित्यज्य निमित्तं कर्मणां बुधः ।
कर्महेतुविरुद्धं यत् स्वरूपं शास्त्रतः स्मरेत् ॥
आत्मैकः सर्वभूतेषु तानि तस्मिंश्च खे यथा ।
पर्यगाद् व्योमवत् सर्वं शुक्रं दीप्तिमदिष्यते ॥
व्रणस्नाय्वोरभावेन स्थूलं देहं निवारयेत् ।
शुद्धापापतया लेपं लिङ्गं चाकायमित्युत ॥
वास्देवो यथाश्वत्थे स्वदेहे चाब्रवीत् समम् ।
तद्वद् वेत्ति य आत्मानं समं स ब्रह्मवित्तमः ॥
यथा ह्यन्यशरीरेषु ममाहन्ता न चेष्यते ।
अस्मिंश्चापि तथा देहे धीसाक्षित्वाविशेषतः ॥
रूपसंस्कारतुल्याधी रागद्वेषौ भयं च यत् ।
गृह्यते धीश्रयं तस्माज् ज्ञाता शुद्धोऽभयः सदा ॥
यन्मनास्तन्मयोऽन्यत्वे नात्मत्वाप्तौ क्रियात्मनि ।
आत्मत्वे चानपेक्षत्वात् सापेक्षं हि न तत् स्वयम् ॥
खमिवैकरसा ज्ञप्तिरविभक्ताजरामला ।
चक्षुराद्युपधानात् सा विपरीता विभाव्यते ॥
दृश्यत्वादहमित्येष नात्मधर्मो घटादिवत् ।
तथान्ये प्रत्यया ज्ञेया दोषश्चात्ममलो ह्यतः ॥
सर्वप्रत्ययसाक्षित्वादविकारी च सर्वगः ।
विक्रियेत यदि द्रष्टा बुद्ध्यादीवाल्पविद् भवेत् ॥
न दृष्टिर्लुप्यते द्रष्टुश्चक्षुरादेर्यथैव तु ।
नहि द्रष्टुरिति ह्युक्तं तस्माद् द्रष्टा सदैव भुक् ॥
संघातो वास्मि भूतानां करणानां तथैव च ।
व्यस्तं वान्यतमो वास्मि को वास्मीति विचारयेत् ॥
व्यस्तं नाहं समस्तं वा भूतमिन्द्रियमेव वा ।
ज्ञेयत्वात् करणत्वाच् च ज्ञातान्योऽस्माद् घटादिवत् ॥
आत्माग्नेरिन्धना बुद्धिरविद्याकामकर्मभिः ।
दीपिता प्रज्वलत्येषा द्वारैः श्रोत्रादिभिः सदा ॥
दक्षिणाक्षिप्रधानेषु यदा बुद्धिर्विचेष्टते ।
विषयैर्हविषा दीप्ता आत्माग्निः स्थूलभुक् तदा ॥
हूयन्ते तु हविंषीति रूपादिग्रहणे स्मरन् ।
अरागद्वेष आत्माग्नौ जाग्रद्दोषैर्न लिप्यते ॥
मानसे तु गृहे व्यक्ता अविद्याकर्मवासनाः ।
पश्यंस्तैजस आत्मोक्तः स्वयंज्योतिःप्रकाशिताः ॥
विषया वासना वापि चोद्यन्ते नैव कर्मभिः ।
यदा बुद्धौ तदा ज्ञेयः प्राज्ञ आत्मा ह्यनन्यदृक् ॥
मनोबुद्धीन्द्रियाणां या अवस्थाः कर्मचोदिताः ।
चैतन्येनैव भास्यन्ते रविणेव घटादयः ॥
तत्रैवं सति बुद्धीर्ज्ञ आत्मभासावभासयन् ।
कर्ता तासां यदर्थास्ता मूढैरेवाभिधीयते ॥
सर्वज्ञोऽप्यत एव स्यात् स्वेन भासावभासयन् ।
सर्वं सर्वक्रियाहेतोः सर्वकृत्त्वं तथात्मनः ॥
सोपाधिश्चैवमात्मोक्तो निरुपाख्योऽनुपाधिकः ।
निष्कलो निर्गुणः शुद्धस्तं मनो वाक् च नाप्नुतः ॥
चेतनोऽचेतनो वापि कर्ताकर्ता गतोऽगतः ।
बद्धो मुक्तस्तथा चैको नैकः शुद्धोऽन्यथेति वा ॥
अप्राप्यैव निवर्तन्ते वाचो धीभिः सहैव तु ।
निर्गुणत्वात् क्रियाभावाद् विशेषाणां ह्यभावतः ॥
व्यापकं सर्वतो व्योम मूर्तैः सर्वैर्वियोजितम् ।
यथा तद्वदिहात्मानं विद्याच्छुद्धं परं पदम् ॥
दृष्टं हित्वा स्मृतिं तस्मिन् सर्वग्रश्च तमस्त्यजेत् ।
सर्वदृग् ज्योतिषा युक्तो दिनकृच्छार्वरं यथा ॥
रूपस्मृत्यन्धकारार्थः प्रत्यया यस्य गोचराः ।
स एवात्मा समो द्रष्टा सर्वभूतेषु सर्वगः ॥
आत्मबुद्धिमनश्चक्षुर्विषयालोकसंगमात् ।
विचित्रो जायते बुद्धेः प्रत्ययोऽज्ञानलक्षणः ॥
विविच्यास्मात् स्वमात्मानं विद्याच्छुद्धं परं पदम् ।
द्रष्टारं सर्वभूतस्थं समं सर्वभयातिगम् ॥
समस्तं सर्वगं शान्तं विमलं व्योमवत् स्थितम् ।
निष्कलं निष्क्रियं सर्वं नित्यं द्वन्द्वैर्विवर्जितम् ॥
सर्वप्रत्ययसाक्षी ज्ञः कथं ज्ञेयो मयेत्युत ।
विमृश्यैवं विजानीयाज् ज्ञातं ब्रह्म न वेति वा ॥
अदृष्टं द्रष्ट्रविज्ञातं दभ्रमित्यादिशासनात् ।
नैव ज्ञेयं मयान्यैर्वा परं ब्रह्म कथंचन ॥
स्वरूपाव्यवधानाभ्यां ज्ञानालोकस्वभावतः ।
अन्यज्ञानानपेक्षत्वाज् ज्ञातं चैव सदा मया ॥
नान्येन ज्योतिषा कार्यं रवेरात्मप्रकाशने ।
स्वबोधान् नान्यबोधेच्छा बोधस्यात्मप्रकाशने ॥
न तस्यैवान्यतोऽपेक्षा स्वरूपं यस्य यद् भवेत् ।
प्रकाशान्तरदृश्यो न प्रकाज़ो ह्यस्ति कश्चन ॥
व्यक्तिः स्यादप्रकाशस्य प्रकाशात्मसमागमात् ।
प्रकाशस्त्वर्ककार्यः स्यादिति मिथ्या वचो ह्यतः ॥
यतोऽभूत्वा भवेद् यच्च तस्य तत् कार्यमिष्यते ।
स्वरूपत्वादभूत्वा न प्रकाशो जायते रवेः ॥
सत्तामात्रे प्रकाशस्य कर्तादित्यादिरिष्यते ।
घटादिव्यक्तितो यद्वत् तद्वद् बोधात्मनीष्यताम् ॥
बिलात् सर्पस्य निर्याणे सूर्यो यद्वत् प्रकाशकः ।
प्रयत्नेन विना तद्वज् ज्ञातात्मा बोधरूपतः ॥
दग्धैवमुष्णः सत्तायां तद्वद् बोधात्मनीष्यताम् ।
सत्येव यदुपाधौ तु ज्ञाते सर्प इवोत्थिते ॥
ज्ञातायत्नोऽपि तद्वज् ज्ञः कर्ता भ्रामकवद् भवेत् ।
स्वरूपेण स्वयं नात्मा ज्ञेयोऽज्ञेयोऽथवा ततः ॥
विदिताविदिताभ्यां तदन्यदेवेति शसनात् ।
बन्धमोक्षादयो भावास्तद्वदात्मनि कल्पिताः ॥
नाहोरात्रे यथा सूर्ये प्रभारूपाविशेषतः ।
बोधरूपाविशेषान् न बोधाबोधौ तथात्मनि ॥
यथोक्तं ब्रह्म यो वेद हानोपादानवर्जितम् ।
यथोक्तेन विधानेन स सत्यं नैव शक्नुयात् ॥
जन्ममृत्युप्रवाहेषु पतितो नैव शक्नुयात् ।
इत उद्धर्तुमात्मानं ज्ञानादन्येन केनचित् ॥
oक़् भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टcक़् इति श्रुतेः ॥
ममाहमित्येतदपोह्य सर्वतो विमुक्तदेहं पदमम्बरोपमम् ।
सुदृष्टशात्रानुमितिभ्य ईरितं विमुच्यतेऽस्मिन् यदि निश्चितो नरः ॥
पार्थिवः कठिनो धातुर्द्रवो देहे स्मृतोऽम्मयः ।
पक्तिचेष्टावकाशाः स्युर्वह्निवाय्वम्बरोद्भवाः ॥
घ्राणादीनि तदर्थाश्च पृथिव्यादिगुणाः क्रमात् ।
रूपालोकवदिष्टं हि सजातीयार्थमिन्द्रियम् ॥
बुद्ध्यर्थान्याहुरेतानि वाक्पाण्यादीनि कर्मणे ।
तद्विकल्पार्थमन्तस्थं मन एकादशं भवेत् ॥
निश्चयार्था भवेद् बुद्धिस्तां सर्वार्थानुभाविनीम् ।
ज्ञातामोक्तः स्वरूपेण ज्योतिषा व्यञ्जयन् सदा ॥
व्यञ्जकस्तु यथालोको व्यङ्ग्यस्याकारतां गतः ।
व्यतिकीर्णोऽप्यसंकीर्नस्तद्वज् ज्ञः प्रत्ययैः सदा ॥
स्थितो दीपो यथायत्नः प्राप्तं सर्वं प्रकाशयेत् ।
शब्दाद्याकारबुद्धीर्ज्ञः प्राप्तास्तद्वत् प्रपश्यति ॥
शरीरेन्द्रियसंघात आत्मत्वेन गतां धियम् ।
नित्यात्मज्योतिषा दीप्तां विशिंशन्ति सुखादयः ॥
शिरोदुःखादिनात्मानं दुःख्यस्मीति हि पश्यति ।
द्रष्टान्यो दुःखिनो दृश्याद् द्रष्टृत्वाच् च न दुःख्यसौ ॥
दुःखी स्याद् दुःख्यहंमानाद् दुःखिनो दर्शनान् न वा ।
संहतेऽङ्गादिभिर्द्रष्टा दुःखी दुःखस्य नैव सः ॥
चक्षुर्वत् कर्मकर्तृत्वं स्याच् चेन् नानेकमेव तत् ।
संहतं च ततो नात्मा द्रष्टृत्वात् कर्मतां व्रजेत् ॥
ज्ञानयत्नाद्यनेकत्वमात्मनोऽपि मतं यदि ।
नैकज्ञानगुणत्वात् तु ज्योतिर्वत् तस्य कर्मता ॥
ज्योतिषो द्योतकत्वेऽपि यद्वन् नात्मप्रकाशनम् ।
भेदेऽप्येवं समत्वाज् ज्ञ आत्मानं नैव पश्यति ॥
यद्धर्मा यः पदार्थो न तस्यैवेयात् स कर्मताम् ।
न ह्यात्मानं दहत्यग्निस्तथा नैव प्रकाशयेत् ॥
एतेनैवात्मनात्मनो ग्रहो बुद्धेर्निराकृतः ।
अंशोऽप्येवं समत्वाद् धि निर्भेदत्वान् न युज्यते ॥
शून्यतापि न युक्तैवं बुद्धेरन्येन दृश्यता ।
उक्तातो घटवत् तस्याः प्राक् सिद्धेश्च विकल्पतः ॥
अविकल्पं तदस्त्येव यत् पूर्वं स्याद् विकल्पतः ।
विकल्पोत्पत्तिहेतुत्वाद् यद्यस्यैव च कारणम् ॥
अज्ञानं कल्पनामूलं संसारस्य नियामकम् ।
हित्वात्मानं परं ब्रह्म वियान् मुक्तं सदाभयम् ॥
जाग्रत्स्वप्नौ तयोर्बीजं सुषुप्ताख्यं तमोमयम् ।
अन्योन्यस्मिन्नसत्त्वाच् च नास्तीत्येतत् त्रयं त्यजेत् ॥
आत्मबुद्धिमनश्चक्षुरालोकार्थादिसंकरात् ।
भ्रान्तिः स्यादात्मकर्मेति क्रियाणां संनिपाततः ॥
निमीलोन्मीलने स्थाने वायव्ये ते न चक्षुषः ।
प्रकाशत्वान् मनस्येवं बुद्धौ न स्तः प्राकाशतः ॥
संकल्पाध्यवसायौ तु मनोबुद्ध्योर्यथाक्रमात् ।
नेतरेतरधर्मत्वं सर्वं चात्मनि कल्पितम् ॥
स्थानावच्छेददृष्टिः स्यादिन्द्रियाणां तदात्मताम् ।
गता धीस्तां हि पश्यञ् ज्ञो देहमात्र इवेक्ष्यते ॥
क्षणिकं हि तदत्यर्थं धर्ममात्रं निरन्तरम् ।
सादृश्याद् दीपवत् तद्धीस्तच्छान्तिः पुरुषार्थता ॥
स्वाकारन्यावभासं च येषां रूपादि विद्यते ।
येषां नास्ति ततश्चान्यत् पूर्वासंगतिरुच्यते ॥
बाह्याकारत्वतो ज्ञप्तेः स्मृत्यभावः सदा क्षणात् ।
क्षणिकत्वाच् च संस्कारं नैवाधत्ते क्वचित् तु धीः ॥
आधारस्यापि असत्त्वाच् च तुल्यतानिर्निमित्ततः ।
स्थाने वा क्षणिकत्वस्य हानं स्यान् न तदिष्यते ॥
शान्तेश्चायत्नसिद्धत्वात् साधनोक्तिरनर्थिका ।
एकैकस्मिन् समाप्तत्वाच्छान्तेरन्यानपेक्षता ॥
अपेक्षा यदि भिन्नेऽपि परसंतान इष्यताम् ।
सर्वार्थे क्षणिके कस्मिंस्तथाप्यन्यानपेक्षता ॥
तुल्यकालसमुद्भूतावितरेतरयोगिनौ ।
योगाच् च संस्कृतो यस्तु सोऽन्यं हीक्षितुमर्हति ॥
मृषाध्यासस्तु यत्र स्यात् तन्नाशस्तत्र नो मतः ।
सर्वनाशो भवेद् यस्य मोक्षः कस्य फलं वद ॥
अस्ति तावत् स्वयं नाम ज्ञानं वात्मन्यदेव वा ।
भावाभावज्ञतस्तस्य नाभावस्त्वधिगम्यते ॥
येनाधिगम्यतेऽभावस्तत् सत् स्यात् तन् न चेद् भवेत् ।
भावाभावानभिज्ञत्वं लोकस्य स्यान् न चेष्यते ॥
सदसत् सदसच् चेति विकल्पात् प्राग् यदिष्यते ।
तदद्वैतं समत्वात् तु नित्यं चान्यद् विकल्पितात् ॥
विकल्पोद्भवतोऽसत्त्वं स्वप्नदृश्यवदिष्यताम् ।
द्वैतस्य प्रागसत्त्वाच् च सदसत्त्वादिकल्पनात् ॥
वाचारम्भणशास्त्राच् च विकाराणां ह्यभावता ।
मृत्योः स मृत्युमित्यादेर्मम मयेति च स्मृतेः ॥
विशुद्धिश्चात एवास्य विकल्पाच् च विलक्षणात् ।
उपादेयो न हेयोऽत आत्मा नान्यैरकल्पितः ॥
अप्रकाशो यथादित्ये नास्ति ज्योतिःस्वभावतः ।
नित्यबोधस्वरूपत्वान् नाज्ञानं तद्वदात्मनि ॥
तथाविक्रियरूपत्वान् नावस्थान्तरमात्मनः ।
अवस्थान्तरवत्त्वे हि नाशोऽस्य स्यान् न संशयः ॥
मोक्षोऽवस्थान्तरं यस्य कृतकः स चलो ह्यतः ।
न संयोगो वियोगो वा मोक्षो युक्तः कथंचन ॥
संयोगस्याप्यनित्यत्वाद् वियोगस्य तथैव च ।
गमनागमने चैव स्वरूपं तु न हीयते ॥
स्वरूपस्यानिमित्तत्वात् सनिमित्ता हि चापरे ।
अनुपात्तं स्वरूपं हि स्वेनात्यक्तं तथैव च ॥
स्वरूपत्वान् न सर्वस्य त्यक्तुं शक्यो ह्यनन्यतः ।
गृहीतुं वा ततो नित्योऽविषयत्वापृथक्त्वतः ॥
आत्मार्थत्वाच् च सर्वस्य नित्य आत्मैव केवलः ।
त्यजेत् तस्मात् क्रियाः सर्वाः साधनैः सह मोक्षवित् ॥
आत्मलाभः परो लाभ इति शास्त्रोपत्तयः ।
अलाभोऽन्यात्मलाभस्तु त्यजेत् तस्मादनात्मताम् ॥
गुणानां समभावस्य भ्रंशो न ह्युपपद्यते ।
अविद्यादेः प्रसुप्तत्वान् न चान्यो हेतुरिष्यते ॥
इतरेतरहेतुत्वे प्रवृत्तिः स्यात् सदा न वा ।
नियमो न प्रवृत्तीनां गुणेष्वात्मनि वा भवेत् ॥
विशेषो मुक्तबद्धानां तादर्थ्ये च न युज्यते ।
अर्थार्थिनोश्च संबन्धो नार्थी ज्ञो नेतरोऽपि वा ॥
प्रधानस्य च पारार्थ्यं पुरुषस्याविकारतः ।
न युक्तं संख्यशास्त्रेऽपि विकारेऽपि न युज्यते ॥
संबन्धानुपपत्तेश्च प्रकृतेः पुरुषस्य च ।
मिथोऽयुक्तं तदर्थत्वं प्रधानस्याचितित्वतः ॥
क्रियोत्पत्तौ विनाशित्वं ज्ञानमात्रे च पूर्ववत् ।
निर्मित्ते त्वनिर्मोक्षः प्रधानस्य प्रसज्यते ॥
न प्रकाश्यं यथोष्णत्वं ज्ञानेनैवं सुखादयः ।
एकनीडत्वतोऽग्राह्याः स्युः कणादादिवर्तमनाम् ॥
युगपच् चासमेतत्वात् सुखविज्ञानयोरपि ।
मनोयोगैकहेतुत्वादग्राह्यत्वं सुखस्य च ॥
तथान्येषां च भिन्नत्वाद् युगपज्जन्म नेष्यते ।
गुणानां समवेतत्वं ज्ञानं चेन् न विशेषणात् ॥
ज्ञानेनैव विशेष्यत्वाज् ज्ञानाप्यत्वं स्मृतेश्तथा ।
सुखं ज्ञातं मयेत्येवं तवाज्ञानात्मकत्वतः ॥
सुखादेर्नात्मधर्मत्वमात्मनस्तेऽविकारतः ।
भेदादन्यस्य कस्मान् न मनसो वाऽविशेषतः ॥
स्यान् मालापरिहार्या तु ज्ञानं चेज् ज्ञेयतां व्रजेत् ।
युगपद् वापि चोत्पत्तिरभ्युपेतेऽन्त इष्यते ॥
अनवस्थान्तरत्वाच् च बन्धो नात्मनि विद्यते ।
नाशुद्धिश्चाप्यसङ्गत्वादसङ्गो हीति च श्रुतेः ॥
सूक्ष्मैकागोचारेभ्यश् च न लिप्यत इति श्रुतेः ।
एवं तर्हि न मोक्षोऽस्ति बन्धाभावात् कथंचन ॥
शास्त्रानर्थक्यमेवं स्यान् न बुद्धेर्भ्रान्तिरिष्यते ।
बन्धो मोक्षश्च तन्नाशः स यथोक्तो न चान्यथा ॥
बोधात्मज्योतिषा दीप्ता बोधमात्मनि मन्यते ।
बुद्धिर्नान्योऽस्ति बोद्धेति सेयं भ्रान्तिर्हि धीगता ॥
बोधस्यात्मस्वरूपत्वान् नित्यं तत्रोपचर्यते ।
अविवेकोऽप्यनाद्योऽयं संसारो नान्य इष्यते ॥
मोक्षस्तन्नाश एव स्यान् नान्यथानुपपत्तितः ।
येषां वस्त्वन्तरापत्तिर्मोक्षो नाशस्तु तैर्मतः ॥
अवस्थान्तरमप्येवमविकारान् न युज्यते ।
विकारेऽवयवित्वं स्यात् ततो नाशो घटादिवत् ॥
तस्माद् भ्रान्तिरतोऽन्या हि बन्धमोक्षादिकल्पनाः ।
सांख्यकाणादबौद्धानां मीमांसाहतकल्पनाः ॥
शास्त्रयुक्तिविरोधात् ता नादर्तव्याः कदाचन ।
शक्यन्ते शतशो वक्तुं दोषास्तासां सहस्रशः ॥
अपि निन्दोपपत्तेश्च यान्यतोऽन्यानि चेत्यतः ।
त्यक्त्वातो ह्यन्यशात्रोक्तीर्मतिं कुर्याद् दृढां बुधः ॥
श्रद्धाभक्ती पुरस्कृत्य हित्वा सर्वमनार्जवम् ।
वेदान्तस्यैव तत्त्वार्थे व्यासस्यापि मतौ तथा ॥
इति प्रणुन्ना द्वयवादकल्पना निरात्मवादाश्च तथा हि युक्तितः ।
व्यपेतशङ्काः परवादतः स्थिरा मुमुक्षवो ज्ञानपथे स्युरित्युत ॥
स्वसाक्षिकं ज्ञानमतीव निर्मलं विकल्पनाभ्यो विपरीतमद्वयम् ।
अवाप्य सम्यग् यदि निश्चितो भवेन् निरन्वयो निर्वृतिमेति शाश्वतीम् ॥
इदं रहस्यं परमं परायणं व्यपेतदोषैरभिमानवर्जितैः ।
समीक्ष्य कार्या मतिरार्जवे सदा न तत्त्वदृक् स्वान्यमतिर्हि कश्चन ॥
अनेकजन्मान्तरसंचितैर्नरो विमुच्यतेऽज्ञाननिमित्तपातकैः ।
इदं विदित्वा परमं हि पावनं न लिप्यते व्योम इवेह कर्मभिः ॥
प्रशान्तचित्ताय जितेन्द्रियाय च प्रहीणदोषाय यथोक्तकारिणे ।
गुणान्वितायानुगताय सर्वदा प्रदेयमेतत् सततं मुमुक्षवे ॥
परस्य देहे न यथाभिमानिता परस्य तद्वत् परमार्थमीक्ष्य च ।
इदं हि विज्ञानमतीव निर्मलं सम्प्राप्य मुक्तोऽथ भवेच् च सर्वतः ॥
न हीह लाभोऽभ्यधिकोऽस्ति कश्चन स्वरूपलाभात् स इतो हि नान्यतः ।
न देयमैन्द्रादपि राजतोऽधिकं स्वरूपलाभं त्वपरीक्ष्य यत्नतः ॥
आत्मा ज्ञेयः परो ह्यात्मा यस्मादन्यन् न विद्यते ।
सर्वज्ञः सर्वदृक् शुद्धस्तस्मै ज्ञेयात्मने नमः ॥
पदवाक्यप्रमाणज्ञैर्दीपभूतैः प्रकाशितं ।
ब्रह्म वेदरहस्यं यैस्तान् नित्यं प्रणतोऽस्म्यहम् ॥
यद्नाक्सूर्यांशुसम्पातप्रणष्टध्वान्तकल्मषः ।
प्रणम्य तान् गुरून् वक्ष्ये ब्रह्मविद्याविनिश्चयम् ॥
आत्मलाभात् परो नायो लाभः कश्चन विद्यते ।
यदर्था वेदवादाश्च स्मार्ताश्चापि तु याः क्रियाः ॥
आत्मार्थोऽपि हि यो लाभः सुखायेष्टो विपर्ययः ।
आत्मलाभः परः प्रोक्तो नित्यत्वाद् ब्रह्मवेदिभिः ॥
स्वयं लब्धस्वभावत्वा लाभस्तस्य न चायथः ।
अन्यापेक्षस्तु यो लाभः सोऽन्यदृष्टिसमुद्भवः ॥
अन्यदृष्टिस्त्वविद्या स्यात् तन्नाशो मोक्ष उच्यते ।
ज्ञानेनैव तु सोऽपि स्याद् विरोधित्वान् न कर्मणा ॥
कर्मकार्यस्त्वनित्यः स्यादविद्याकामकार्णः ।
प्रमाणं वेद एवात्र ज्ञानस्याधिगमे स्मृतः ॥
ज्ञानैकार्थपरत्वात् तं वाक्यमेकं ततो विदुः ।
एकत्वं ह्यात्मनो ज्ञेयं वाक्यार्थप्रतिपत्तितः ॥
वाच्यभेदात् तु तद्भेदः कल्प्यो वाच्योऽपि तच्छ्रुतेः ।
त्रयं त्वेतत् ततः प्रोक्तं रूपं नाम च कर्म च ॥
असदेतत् त्रयं तस्मादन्योन्येन हि कल्पितम् ।
कृतो वर्णो थता शब्दाच्छ्रुतोऽन्यत्र धिया बहिः ॥
दृष्टं चापि यथारूपं बुद्धेः शब्दाय कल्पते ।
एवमेतज् जगत् सर्वं भ्रान्तिबुद्धिविकल्पितम् ॥
असदेतत् ततो युक्तं सच्चिन्मात्रं न कल्पितम् ।
वेदश्चापि स एवाद्यो वेद्यश्चान्यस्तु कल्पितः ॥
येन वेत्ति स वेदः स्यात् स्वप्ने सर्वं तु मायया ।
येन पश्यति तच् चक्षुः शृणोति श्रोत्रमुच्यते ॥
येन स्वप्नगतो वक्ति सा वाग् घ्राणं तथैव च ।
रसनस्पर्शने चैव मनश्चान्यत् तथेन्द्रियम् ॥
कल्प्योपाधिभिरेवैतद् भिनं ज्ञानमनेकधा ।
आधिभेदाद् यथ भेदो मणेरेकस्य जायते ॥
जाग्रतश्च तथा भेदो ज्ञानस्यास्य विकल्पितः ।
बुद्धिस्थं व्याकरोत्यर्थं भ्रान्त्या तृष्णोद्भवक्रियः ॥
स्वप्ने यद्वत् प्रबोधे च बहिश्चान्तस्तथैव च ।
आलेख्याध्ययने यद्वत् तदन्योन्यधियोद्भवम् ॥
यदायं कल्पयेद् भेदं तत्कामः सन् यथाक्रतुः ।
यत्कामस्तत्क्रतुर्भूत्वा कृतं यत् तत् प्रपद्यते ॥
अविद्याप्रभवं सर्वमसत् तस्मादिदं जगत् ।
तद्वता सृश्यते यस्मात् सुषुप्ते न च ग्र्ह्यते ॥
विद्याविद्ये श्रुतिप्रोक्ते एकत्वान्यधियौ गि नः ।
तस्मात् सर्वप्रयत्नेन शास्त्रे विद्या विधीयते ॥
चित्ते ह्यादर्शवद् यस्माच्छुद्धे विद्या प्रकाशते ।
यमैर्नित्यैश्च यज्ञैश्च तपोभिस्तस्य शोधनम् ॥
शारीरादितपः कुर्यात् तद्विशुद्ध्यर्थमुत्तमम् ।
मनादिसमाधानं तत्तद्देहविशोषणम् ॥
दृष्टं जागरितं विद्यात् स्मृतं स्वप्नं तदेव तु ।
सुषुप्तं तदभावं च स्वमात्मानं परं पदम् ॥
सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः ।
स्वात्मबोधप्रदग्धं स्याद् बीजं दग्धं यथाभवम् ॥
तदेवैकं त्रिधा ज्ञेयं मायाबीजं पुनः क्रमात् ।
मायाव्यात्माविकारोऽपि बहुधैलो जलार्कवत् ॥
बीजं चैकं यथा भिन्नं प्राणस्वप्नादिभिस्थता ।
स्वप्नजाग्रच्छरीएषु तद्वच् चात्मा जलेन्दुवत् ॥
मायाहस्तिनमारुह्य मायाव्येको यथा व्रजेत् ।
आगच्छंस्तद्वदेवात्मा प्राणस्वप्नादिगोऽचलः ॥
न हस्ती न तदारूढो मायाव्यन्यो यथा स्थितः ।
न प्राणादि न तद्द्रष्टा तथा ज्ञोऽन्यः सदा दृशिः ।
अबद्धचक्षुषो नास्ति माया मायाविनोऽपि वा ।
बद्धाक्षस्यैव सा मायामायाव्येव ततो भवेत् ॥
साक्षादेव स विज्ञेयः साक्षादात्मेति च श्रुतेः ।
भिद्यते हृदयग्रन्थिर्न चेदित्यादितः श्रुतेः ॥
अशब्दादित्वतो नास्य ग्रहणं चेन्द्रियैर्भवेत् ।
सुखादिभ्यस्तथान्यत्वद् बुद्ध्या वापि कथं भवेत् ॥
अदृश्योऽपि यथा राहुश्चन्द्रे बिम्बं यथाम्भसि ।
सर्वगोऽपि तथैवात्मा बुद्धावेव स गृह्यते ॥
भानोर्बिम्बं यथा चौष्ण्यं जले दृष्टं न चाम्भसः ।
बुद्धौ बोधो न तद्धर्मस्तथैव स्याद् विधर्मतः ॥
चक्षुर्युक्ता धियो वृत्तिर्या तां तश्यन्नलुप्तदृक् ।
दृष्टेर्द्रष्टा भवेदात्मा श्रुतेः श्रोता तथा श्रुतेः ॥
केवलां मनसो वृत्तिं पश्यन् मन्ता मतेरजः ।
विज्ञातालुप्तशक्तित्वात् तथा शास्त्रं न हीत्यतः ॥
ध्यायतीत्यविकारित्वं तथा लेलायतीत्यपि ।
अत्र स्तेनेति शुद्धत्वं तथानन्वागतं श्रुतेः ॥
शक्त्यलोपात् सुषुप्ते ज्ञस्थता बोधेऽविकारतः ।
ज्ञेयस्यैव विशेषस्तु यत्र वेति श्रुतेर्मतः ॥
व्यवधानाद् धि पारोक्ष्यं लोकदृष्टेरनात्मनः ।
दृष्टेरात्मस्वरूपत्वात् प्रत्यक्षं ब्रह्म तत् स्मृतम् ॥
न हि दीपान्तरापेक्षा यद्वद् दीपप्रकाशने ।
बोधस्यात्मस्वरूपत्वान् न बोधोऽन्यस्तथेष्यते ॥
विषयत्वं विकारित्वं नानात्वं वा न हीष्यते ।
न हेयो नाप्युपादेय आत्मा नान्येन वा ततः ॥
सबाह्याभ्यन्तरोऽजीर्णो जन्ममृत्युजरातिगः ।
अहमात्मेति यो वेत्ति कुतो न्वेव बिभेति सः ॥
प्रगेवैतद्विधेः कर्म वर्णित्वादेरपोहनात् ।
तदस्थूलादिशास्त्रेभ्यस्तत् त्वमेवेति निश्चयात् ॥
पूर्वदेहपरित्यागे जात्यादीनां प्रहाणतः ।
देहस्यैव तु जात्यादिस्तस्याप्येवं ह्यनात्मता ॥
ममाहं चेत्यतोऽविद्या शरीरादिष्वनात्मसु ।
आत्मज्ञानेन हेया स्यादसुराणामिति श्रुतेः ॥
दशाहाशौचकार्याणां पारिव्राज्ये निवर्तनम् ।
यथा ज्ञानस्य सम्प्राप्तौ तद्वज् जात्यादिकर्मणाम् ॥
यत्कामस्तत्क्रतुर्भूत्वा कृतं त्वज्ञः प्रपद्यते ।
यदा स्वात्मदृशः कामाः प्रमुच्यन्तेऽमृतस्तदा ॥
आत्मरूपविधेः कार्यं क्रियादिभ्यो निवर्तनम् ।
न साध्यं साधनं वात्मा नित्यतृप्तः श्रुतेर्मतः ॥
उत्पाद्याप्यविकार्याणि संस्कार्यं च क्रियाफलम् ।
नातोऽन्यत् कर्मणः कर्यं त्यजेत् तस्मात् ससाधनम् ॥
तापान्तत्वादनित्यत्वादात्मार्थत्वाच् च या बहिः ।
संहृत्यात्मनि तां प्रीतिं सत्यार्थी गुरुमाश्रयेत् ॥
शान्तं प्राज्ञं तथा मुक्तं निष्क्र्यं ब्रह्मणि स्थितम् ।
श्रुतेराचार्यवान् वेद तद् विद्धीति स्मृतेस्तथा ॥
स गुरुस्तारयेद् युक्तं शिष्यं शिष्यगुणान्वितम् ।
ब्रह्मविद्याप्लवेनाशु स्वान्तध्वान्तमहोदधिम् ॥
दृष्टिः स्पृष्टिः श्रुतिर्घ्रातिर्मतिर्विज्ञातिरेव च ।
शक्तयोऽन्याश्च भिद्यन्ते चिद्रूपत्वेऽप्युपाधिभिः ॥
अपायोद्भूतिहीनाभिर्नित्यं दीप्यन् रविर्यथा ।
सर्वगः सर्वदृक् शुद्धः सर्वं जानाति सर्वदा ॥
अन्यदृष्टिः शरीरस्थस्तावन्मात्रो ह्यविद्यया ।
जलेन्द्वाद्युपमभिस्तु तद्धर्मा च विभाव्यते ॥
दृष्ट्वा बाह्यं निमील्याथ स्मृत्वा तत् प्रविहाय च ।
अथोन्मील्यात्मनो दृष्टिं ब्रह्म प्राप्नोत्यन्ध्वगः ॥
प्राणाद्येवं त्रिकं हित्वः तीर्णोऽज्ञानमहोदधिम् ।
स्वात्मस्थो निर्गुणः शुद्धो बुद्धो मुक्तः स्वतो हि सः ॥
अजोऽहं चामरोऽमृत्युरजरोऽभय एव च ।
सर्वज्ञः सर्वदृक् शुद्ध इति बुद्धो न जायते ॥
पूर्वोक्तं यत् तमोबीजं तन् नास्तीति विनिश्चयः ।
तद्भावे कुतो जन्म ब्रह्मैकत्वं विजानतः ॥
क्षीरात् सर्पिर्यथोद्धृत्य क्षिप्तं तस्मिन् न पूर्ववत् ।
बुद्ध्यादेर्ज्ञस्तथासत्यान् न देही पूर्ववद् भवेत् ॥
सत्यं ज्ञानमनन्तं च रसादेः पञ्चकात् परम् ।
स्यामदृश्यादिशास्त्रोक्तमहं ब्रह्मेति निभयः ॥
यस्माद् भीताः प्रवर्तन्ते वाञ्मनःपावकादयः ।
तदात्मानन्दतत्त्वज्ञो न बिभेति कुतश्चन ॥
नामादिभ्यः परे भूम्नि स्वाराज्ये चेत् स्थितोऽद्वये ।
प्रणमेत् कं तदात्मज्ञो न कार्यं कर्मणा तदा ॥
विराड् वैश्वानरो बाह्यः स्मरन्नन्तः प्रजापतिः ।
प्रविलीने तु सर्वस्मिन् प्राज्ञोऽव्याकृतमुच्यते ॥
वाचारम्भणमात्रत्वात् सुषुप्तादित्रिकं त्वसत् ।
सत्यो ज्ञश्चाहमित्येवं सत्यसन्धो विमुच्यते ॥
भारूपत्वाद् यथा भानोर्नाहोरात्रे तथैव तु ।
ज्ञानाज्ञाने न मे स्यातां चिद्रूपत्वाविशेषतः ॥
शास्त्रस्यानतिशङ्क्यत्वाद् ब्रह्मैव स्यामहं सदा ।
ब्रह्मणो मे न हेयं स्याद् ग्राह्यं वेति च संस्मरेत् ॥
अहमेव च भूतेषु सर्वेष्वेको नभो यथा ॥
मयि सर्वाणि भूतानि पश्यन्नेवं न जायते ॥
न बाह्यं मध्यतो वान्तर्विद्यतेऽन्यत् स्वतः क्वचित् ।
अबाह्यान्तःश्रुतेः किंचित् तस्माच्छुद्धः स्वयंप्रभः ॥
नेतिनेत्यादिशास्त्रेभ्यः प्रपञ्चोपशमोऽद्वयः ।
अविज्ञातादिशास्त्राच्च नैव ज्ञेयो ह्यतोऽन्यथा ॥
सर्वस्यात्माहमेवेति ब्रह्म चेद् विदितं परम् ।
स आत्मा सर्वभूतानामात्मा ह्येषामिति श्रुतेः ॥
जिवश्चेत् परमात्मानं स्वात्मानं देवमञ्जसा ।
देवोपास्यः स देवानां पशुत्वाच् च निवर्तते ॥
अहमेव सदात्मज्ञः शून्यस्त्वन्यैर्यथाम्बरम् ।
इत्येवं सत्यसंधत्वादसद्धाता न बध्यते ॥
कृपणास्तेऽन्यथैवातो विदुर्ब्रह्म परं हि ये ।
स्वराड् योऽनन्यदृक् स्वस्थस्तस्य देवा असन् वशे ॥
हित्वा जात्यादिसंबन्धं वाचोऽन्याः सह कर्मभिः ।
ओमित्येवं स्वमात्मानं सर्वं शुद्धं प्रपद्यथ ॥
सेतुं सर्वव्यवस्थानामहोरात्रादिवर्जितम् ।
तिर्यगूर्ध्वमधः सर्वं सकृज्ज्योतिरनामयम् ॥
धर्माधर्मविनिर्मुक्तं भूतभव्यात् कृताकृतात् ।
स्वमात्मानं परं विद्याद् विमुक्तं सर्वबन्धनैः ॥
अकुर्वन् सर्वकृच्छुद्दस्तिष्ठन्नत्येति धावतः ।
मायया सर्वशक्तित्वादजः सन् बनुधा मतः ॥
राजवत् साक्षिमात्रत्वात् सांनिध्याद् भ्रामको यथा ।
भ्रामयञ् जगदात्माहं निष्क्रियो ऽकारकोऽद्वयः ॥
निगुणं सिष्कियं नित्यं निर्द्वन्द्वं यन् निरामयम् ।
शुद्धं बुद्धं तथा मुक्तं तद् ब्रह्मास्मीति धारयेत् ॥
बन्धं सोक्षं च सर्वं यत इदमुभयं हेयमेकं द्वयं च ।
ज्ञेयाज्ञेयाभ्यतीतं परममधिगतं तत्त्वमेकं विशुद्धम् ।
विज्ञायैतद् यथावच्छ्रुतिमुनिगदितं शोकमोहावतीतः ।
सर्वज्ञः सर्वकृत् स्याद् भवभयरहितो ब्राह्मणोऽवाप्तकृत्यः ॥
न स्वयं स्वस्य नान्यश्च नान्यस्यात्मा च हेयगः ।
उपादेयो न चाप्येवमिति सम्यञ्मतिः स्मृता ॥
आत्मप्रत्यायिका ह्येषा सर्ववेदान्तगोचरा ।
ज्ञात्वैतां हि विमुच्यन्ते सर्वसंसारबन्धनैः ॥
रहस्यं सर्ववेदानां देवानां चापि यत् परम् ।
पवित्रं परमं ह्येतत् तदेतत् सम्प्रकाशितम् ॥
नैतद् देयमशान्ताय रहस्यं ज्ञानमुत्तमम् ।
विरक्ताय प्रदातव्यं शिष्यायानुगताय च ॥
ददतश्चात्मनो ज्ञानं निष्क्रियोऽन्यो न विद्यते ।
ज्ञानमिच्छन् भवेत् तस्माद् युक्तः शिष्यगुणैः सदा ॥
ज्ञानं ज्ञेयं तथा ज्ञाता यस्मादन्यन् न विद्यते ।
सर्वज्ञः सर्वशक्तिर्यस्तस्मै ज्ञानात्मने नमः ॥
विद्यया तारिताः स्मो यैर्जन्ममृत्युमहोदधिम् ।
सर्वज्ञेभ्यो नमस्तेभ्यो गुरुभ्योऽज्ञानसंकुलं ॥
येनात्मना विलीयन्त उद्भवन्ति च वृत्तयः ।
नित्यावगतये तस्मै नमो धीप्रत्ययात्मने ॥
प्रमथ्य वज्रोपमयुक्तिसंभृतैः श्रुतेररातीञ् शतशो वचोऽसिभिः ।
ररक्ष वेदार्थिनिधिं विशालधीर्नमो यतीन्द्रियाय गुरोर्गरीयसे ॥
नित्यमुक्तः सदेवास्मीत्येवं चेन् न भवेन् मतिः ।
किमर्थं श्रावयत्येवं मातृवच्छ्रुतिरादृता ॥
सिद्धादेवाहमित्यस्माद् युष्मद्धर्मो निषिध्यते ।
रज्ज्वामिवाहिधीर्युक्त्या तत् त्वमित्यादिशासनैः ॥
शास्त्रप्रामण्यतो ज्ञेया धर्मादेरस्तिता यथा ।
विषापोहो यथा ध्यानाद् ह्नुतिः स्यात् पाप्मनस्तथा ॥
सद् ब्रह्माहं करोमीति प्रत्ययावात्मसाक्षिकौ ।
तयोरज्ञानजस्यैव त्यागो युक्ततरो मतः ॥
सदस्मीति प्रमाणोत्था धीरन्या तन्निबोद्भवा ।
प्रत्यक्षादिनिभा वापि बाध्यते दिग्भ्रमादिवत् ॥
कर्ता भोक्तेति यच्छास्त्रं लोकबुद्ड्यनुवादि तत् ।
सदस्मीति श्रुतेर्जाता बाध्यतेऽनित्यैतयैव धीः ॥
सदेव त्वमसीत्युक्ते नात्मनो मुक्ततां स्थिराम् ।
प्रपद्यते प्रसंचक्षामतो युक्त्यानुचिन्तयेत् ॥
सकृदुक्तं न गृह्णाति वाक्यार्थज्ञोऽपि यो भवेत् ।
अपेक्षतेऽत एवान्यदवोछाम द्वयं हि तत् ॥
नियोगोऽप्रतिपन्नत्वात् कर्मणां स यथा भवेत् ।
अविरुद्धो भवेत् तावद् यावत् संवेद्यतादृढा ॥
चेष्टितं च तथा मिथ्या स्वच्छन्दः प्रतिपद्यते ।
प्रसंख्यानमतः कार्यं यावदात्मानुभूयते ॥
सदस्मीति च विज्ञानमक्षजो बाधते ध्रुवम् ।
शब्दोत्थं दृढसंस्कारो दोषैश्चाकृष्यते बहिः ॥
श्रुतानुमानजन्मानौ सामान्यविषयौ यतः ।
प्रत्ययावक्षजोऽवश्यं वीशेषार्थो निवारयेत् ॥
वाक्यार्थप्रत्ययी कश्चिन् निर्दुःखो नोपलभ्यते ।
यदि वा दृश्यते कश्चिद् वाक्यार्थश्रुतिमात्रतः ॥
निर्दुःखोऽतीतदेहेषु कृतभावोऽनुमीयते ।
चर्या नोऽशास्त्रसंवेद्या स्यादनिष्टं तथा सति ॥
सदसीति फलं चोक्त्वा विधेयं साधनं यतः ।
न तदन्यत् प्रसंख्यानात् प्रसिद्धार्थमिहेष्यते ॥
तस्मादनुभवायैव प्रसंचक्षीत यत्नतः ।
त्यजन् साधनतत्साध्यविरुद्धं शमनादिमान् ॥
नैतदेवं रहस्यानां नेतिनेत्यवसानतः ।
क्रियासाध्यं पुरा श्राव्यं न मोक्षो नित्यसिद्धतः ॥
पुत्रदुःखं यथाध्यस्तं नित्यादुःखे स्व आत्मनि ।
अहंकर्त्रा तथाध्यस्तं पित्रादुःखे स्व आत्मनि ॥
सोऽध्यासो नेति नेतीति प्राप्तवत् प्रतिषिध्यते ।
भूयोऽध्यासविधिः कश्चित् कुतश्चिन् नोपपद्यते ॥
आत्मनीह यथाध्यासः प्रतिषेधस्तथैव च ।
मलाध्यासनिषेधौ खे क्रियेते च यथाबुधैः ॥
प्राप्तश्चेत् प्रतिषिध्येत मोक्षोऽनित्यो भवेद् ध्रुवम् ।
अतोऽप्राप्तनिषेधोऽयं दिव्यग्निचयनादिवत् ॥
संभाव्यो गोचरे शब्दः प्रत्ययो वा न चान्यथा ।
न संभाव्यौ तदात्मत्वादहंकर्तुस्तथैव च ॥
अहंकर्त्रात्मनि न्यस्तं चैतन्ये कर्तृतादि यत् ।
नेति नेतीति तत् सर्वं साहंकर्त्रा निषिध्यते ॥
उपलभिः स्वयंज्योतिर्दृशिः प्रत्यक्षदक्रियः ।
साक्षात् सर्वानतरः साक्षी चेता नित्योऽगुणोऽद्वयः ॥
संनिधौ सर्वदा तस्य स्यात् तदाभोऽभिमानकृत् ।
आत्मात्मीयं द्वयं चातः स्यादहंममगोचरः ॥
जातिकर्मादिमत्त्वाद् धि तस्मिञ् शब्दस्त्वहंकृति ।
न कश्चिद् वर्तते शब्दस्तदभावात् स्व आत्मनि ॥
आभासो यत्र तत्रैव शब्दाः प्रत्यग्दृशिं स्थिताः ।
लक्षयेयुर्न साक्षात् तमभिदध्युः कथंचन ॥
नह्यजात्यादिमान् कश्चिदर्थः शब्दैर्निरूप्यते ।
आत्माभासो यतोऽहंकृदात्मशब्दैस्तथोच्यते ॥
उल्मुकादौ यथाग्न्यर्थाः परार्थत्वान् न चाञ्जसा ।
मुखादन्यो मुखाभासो यथादर्शानुकारतः ॥
आभासान् मुखमप्येवमादर्शानुवर्तनात् ।
अहंकृत्यात्मनिर्भासो मुखाभासवदिष्यते ॥
मुखवत् स्थित आत्मान्योऽविविक्तौ तौ तथैव च ।
संसारी च स इत्येक आभासो यस्त्वहंकृति ॥
वस्तु च्छाया स्मृतेरन्यन् माधुर्यादि च कारणम् ।
ज्ञैकदेशो विकारो वा तदाभासाश्रयः परे ॥
अहंकर्तैव संसारी स्वतन्त्र इति केचन ।
अहंकारादिसंतानः संसारी नान्वयी पृथक् ॥
इत्येवं सौगता आहुस्तत्र न्यायो विचार्यताम् ।
संसारिणां कथा त्वास्तां प्रकृतं त्वधुनोच्यते ॥
मुखाभासो य आदर्शे धर्मो नान्यतरस्य सः ।
द्वयोरेकस्य चेद् धर्मो वियुक्तेऽन्यतरे भवेत् ॥
मुखेन व्यपदेशात् स मुखस्यैवेति चेन् मतम् ।
नादर्शानुविधानाच् च मुखे सत्यविभावतः ॥
द्वयोरेवेति चेत् तन् न द्वयोरेवाप्यदर्शनात् ।
अदृष्टस्य सतो दृष्टिः स्याद् राहोश्चन्द्रसूर्ययोः ॥
राहोः प्रागेव वस्तुत्वं सिद्धं शास्त्रप्रमाणतः ।
छायापक्षे त्ववस्तुत्वं तस्य स्यात् पूर्वयुक्तितः ॥
छायाक्रान्तेर्निषेधोऽयं न तु वस्तुत्वसाधकः ।
न ह्यर्थान्तरनिष्टं सद् वाक्यमर्थान्तरं वदेत् ॥
माधुर्यादि च यत् कार्यमुष्णद्रव्याद्यसेवनात् ।
छायाया न त्वदृष्टत्वादपामेव च दर्शनात् ॥
आत्माभासाश्रयाश्चैवं मुखाभासाश्रया यथा ।
गम्यते शास्त्रयुक्तिभ्यामाभासासत्त्वमेव च ॥
न दृशेरविकारित्वादाभासस्याप्यवस्तुतः ।
नाचितित्वादहंकर्तुः कस्य संसारिता भवेत् ॥
अविद्यामात्र एवातः संसारोऽस्त्वविवेकतः ।
कूटस्थेनात्मना नित्यमात्मवानात्मनीव सः ॥
रज्जुसर्पो यथा रज्ज्वा सात्मकः प्राग् विवेकतः ।
अवस्तुसन्नपि ह्येष कूटस्थेनात्मना तथा ॥
आत्माभासाश्रयश्चात्मा प्रत्ययैः स्वैर्विकारवान् ।
सुखी दुःखी च संसारी नित्य एवेति केचन ॥
आत्माभासापरिज्ञानाद् यथात्म्येन विमोहिताः ।
अहंकर्तारमात्मेति मन्यन्ते ते निरागमाः ॥
संसारो वस्तुसंस्तेषां कर्तृभोक्तृत्वलक्षणः ।
आत्माभासाश्रयाज्ञानात् संसरन्त्यविवेकतः ॥
चैतन्याभासता बुद्धेरात्मनस्तत्स्वरूपता ।
स्याच् चेत् तं ज्ञानशब्दैश्च वेदः शास्तीति युज्यते ॥
प्रकृतिप्रत्ययार्थौ यौ भिन्नावेकाश्रयौ यथा ।
करोति गच्छतीत्यादौ दृष्टौ लोकप्रसिद्धितः ॥
नानयोर्द्व्याश्रयत्वं तु लोके दृष्टं स्मृतौ तथा ।
जानात्यर्थेषु को हेतुर्द्व्याश्रयत्वे निगद्यताम् ॥
आत्माभासस्तु तिण्वाच्यो धात्वर्थश्च धियः क्रिया ।
उभयं चाविवेकेन जानातीत्युच्यते मृषा ॥
न बुद्धेरवबोधोऽस्ति नात्मनो विद्यते क्रिया ।
अतो नान्यतरस्यापि जानातीति च युज्यते ॥
नाप्यतो भावशब्देन ज्ञप्तिरित्यपि युज्यते ।
न ह्यात्मा विक्रियामात्रो नित्य आत्मेतिशासनात् ॥
न बुद्धेर्बुद्धिवाच्यत्वं करणं न ह्य्कर्तृकम् ।
नापि ज्ञायत इत्येवं कर्मशब्दैर्निरुच्यते ॥
न येषामेक एवात्मा निर्दुःखोऽविक्रियः सदा ।
तेषां स्याच्छब्दवाच्यत्वं ज्ञेयत्वं चात्मनः सदा ॥
यदाहंकर्तुरात्मत्वं तदा शब्दार्थमुख्यता ।
नाशनायादिमत्त्वात् तु श्रुतौ तस्यात्मतेष्यते ॥
हन्त तर्हि न मुख्यार्थो नापि गौणः कथंचन ।
जानातीत्यादिशब्दस्य गतिर्वाच्या तथापि तु ॥
शब्दानामयथार्थत्वे वेदस्याप्यप्रमाणता ।
सा च नेष्टा ततो ग्राह्या गतिरस्य प्रसिद्धितः ॥
प्रसिद्धिर्मूढलोकस्य यदि ग्राह्या निरात्मता ।
लोकायतिकसिद्धान्तः स चानिष्टः प्रसज्यते ॥
अभियुक्तप्रसिद्धिश्चेत् पूर्ववद् दुर्विवेकता ।
गतिशून्यं न वेदोऽयं प्रमाणं संवदत्युत ॥
आदर्शमुखसामान्यं मुखस्येष्टं हि मानवैः ।
मुखस्य प्रतिबिम्बो हि मुखाकारेण दृश्यते ॥
यत्र यस्यावभासस्तु तयोरेवाविवेकतः ।
जानातीति क्रियां सर्वो लोको वक्ति स्वभावतः ॥
बुद्धेः कर्तृत्वमध्यस्य जानातीति ज्ञ उच्यते ।
तथा चैतन्यमध्यस्य ज्ञत्वं बुद्धेरिहोच्यते ॥
स्वरूपं चात्मनो ज्ञानं नित्यं ज्योतिः श्रुतेर्यतः ।
न बुद्ध्या क्रियते तस्मान् नात्मनान्येन वा सदा ॥
देहेऽहंप्रत्ययो यद्वज् जानातीति च लौकिकाः ।
वदन्ति ज्ञानकर्तृत्वं तद्वद् बुद्धेस्तथात्मनः ॥
बौद्धैस्तु प्रत्ययैरेवं क्रियमाणैश्च चिन्निभैः ।
मोहिताः क्रिअये ज्ञानमित्याहुस्तार्किका जनाः ॥
तस्माज् ज्ञाभासबुद्धीनामविवेकात् प्रवर्तिताः ।
जानातीत्यादिशब्दश्च प्रत्ययो या च तत्स्मृतिः ॥
आदर्शानुविधायित्वं छायाया अस्यते मुखे ।
बुद्धिधर्मानुकारित्वं ज्ञाभासस्य तथेष्यते ॥
बुद्धेस्तु प्रत्ययास्तस्मादात्माभासेन दीपिताः ।
ग्राहका इव भासन्ते दहन्तीवोल्मुकादयः ॥
स्वयमेवावभास्यन्ते ग्राहकाः स्वयमेव च ।
इत्येवं ग्राहकास्तीत्वं प्रतिषेधन्ति सौगताः ॥
यद्येवं नान्यदृश्यास्ते किं तद्वारणमुच्यताम् ।
भावाभावौ हि तेषां यौ नान्यग्राह्यौ सदा यदि ॥
अन्वयि ग्राहकस्तेषामित्येतदपि तत्समम् ।
अचितित्वस्य तुल्यत्वादन्यस्मिन् ग्राहके सति ॥
अध्यक्षस्य समीपे तु सिद्धिः स्यादिति चेन् मतम् ।
नाध्यक्षेऽनुपकारित्वादन्यत्रापि प्रसङ्गतः ॥
अर्थी दुःखी च यः श्रोता स त्वध्यक्षोऽथवेतरः ।
अध्यक्षस्य च दुःखित्वमर्थित्वं च न ते मतम् ॥
कर्ताध्यक्षः सदस्मीति नैव सद्ग्रहमर्हति ।
सदेवासीति मिथ्योक्तिः श्रुतेरपि न युज्यते ॥
अविविच्योभयं वक्ति श्रुतिश्चेत् स्याद् ग्रहस्तथा ।
अस्मदस्तु विविच्यैव त्वमेवेति वदेद् यदि ॥
प्रत्ययान्वयिनिष्ठत्वमुक्तो दोषः प्रसज्यते ।
त्वमित्यध्यक्षनिष्ठश्चेदहमध्यक्षयोः कथम् ॥
संबन्धो वाच्य एवात्र येन त्वमिति लक्षयेत् ।
द्रष्टृदृश्यत्वसंबन्धो यद्यध्यक्षेऽक्रिये कथम् ॥
अक्रियत्वेऽपि तादात्म्यमध्यक्षस्य भवेद् यदि ।
आत्माध्यक्षो ममास्तीति संबन्धाग्रहणे न धीः ॥
संबन्धग्रहणं शास्त्रादिति चेन् मन्यसे न हि ।
पूर्वोक्ताः स्युस्त्रिधा दोषा ग्रहो वा स्यान् ममेति च ॥
अदृशिर्दृशिरूपेण भाति बुद्धिर्यदा सदा ।
प्रत्यया अपि तस्याः स्युस्तप्तायोविस्फुलिङ्गवत् ॥
आभासस्तदभावश्च दृशेः सीम्नो न चान्यथा ।
लोकस्य युक्तितः स्यातां तद्ग्रहश्च तथा सति ॥
नन्वेवं दृशिसंक्रान्तिरयःपिण्डेऽग्निवद् भवेत् ।
मुखाभासवदित्येतदादर्शे तन् निराकृतम् ॥
कृष्णायो रोहिताभासमित्येतद् दृष्टमुच्यते ।
दृष्टदार्ष्टान्तुल्यत्वं न तु सर्वात्मना क्वचित् ॥
तथैव चेतनाभासं चित्तं चैतन्यवद् भवेत् ।
मुखाभासो यथादर्श आभासश्चोदितो मृषा ॥
चित्तं चेतनमित्येतच्छास्त्रयुक्तिविवर्जितम् ।
देहस्यापि प्रसङ्गः स्याच् चक्षुरादेस्तथैव च ॥
तदप्यस्त्विति चेत् तन् न लोकायतिकसंगतेः ।
न च धीर्दृशिरस्मीति यद्याभासो न चेतसि ॥
सदस्मीति धियोऽभावे व्यर्थं स्यात् तत् त्वमस्यपि ।
युष्मदस्मद्विवेकज्ञे स्यादर्थवदिदं वचः ॥
ममेदंप्रत्ययौ ज्ञेयौ युष्मद्येव न संशयः ।
अहमित्यस्मदीष्टः स्यादयमस्मीति चोभयोः ॥
अन्योन्यापेक्षया तेषां प्रधानगुणतेष्यते ।
विशेषनविशेष्यत्वं तथा ग्राह्यं हि युक्तितः ॥
ममेदं द्वयमप्येतन् मध्यमस्य विशेषणम् ।
धनी गोमान् यथा तद्वद् देहोऽहंकर्तुरेव च ॥
बुद्ध्यारूढं सदा सर्वं साहंकर्त्रा च साक्षिणः ।
तस्मात् सर्वावभासो ज्ञः किंचिदप्यस्पृशन् सदा ॥
प्रतिलोममिदं सर्वं यथोक्तं लोकबुद्धितः ।
अविवेकधियामस्ति नास्ति सर्वं विवेकिनाम् ॥
अन्वयव्यतिरेकौ हि पदार्थस्य पदस्य च ।
स्यादेतदहमित्यत्र युक्तिरेवावधारणे ॥
नाद्राक्षमहमिति अस्मिन् सुषुप्तेऽन्यन् मनागपि ।
न वारयति दृष्टिं स्वां प्रत्ययं तु निषेधति ॥
स्वयंज्योतिर्न हि द्रष्टुरित्येवं संविदोऽस्थिताम् ।
कौटस्थ्यं च तथा तस्याः प्रत्ययस्य च लुप्तताम् ।
स्वयमेवाब्रवीच् छास्त्रं प्रत्ययावगती पृथक् ॥
एवं विज्ञातवाक्यार्थे श्रुतिलोकप्रसिद्धितः ।
श्रुतिस्तत् त्वमसीत्याह श्रोतुर्मोहापनुत्तये ॥
ब्रह्मा दाशरथेर्यद्वदुक्तैवापानुदत् तमः ।
तस्य विष्णुत्वसंबोधे न यत्नान्तरमूचिवान् ॥
अहंशब्दस्य या निष्ठा ज्योतिषि प्रत्यगात्मनि ।
सैवोक्ता सदसीत्येवं फलं तत्र विमुक्तता ॥
श्रुतमात्रे न चेत् स्यात् कार्यं तत्र भवेद् ध्रुवम् ।
व्यवहारात् पुरापीष्टः सद्भावः स्वयमात्मनः ॥
अशनायादिनिर्मुक्त्यै तत्काला जायते प्रमा ।
तत्त्वमस्यादिवाक्यार्थे त्रिषु कालेष्वसंशयः ॥
प्रतिबन्धविहीनत्वात् स्वयं चानुभवात्मनः ।
जायेतैव प्रमा तत्र स्वात्मन्येव न संशयः ॥
किं सदेवाहमस्मीति किं वान्यत् प्रतिपद्यते ।
सदेव चेदहंशब्दः सता मुख्यार्थ इष्यताम् ॥
अन्यच् चेत् सदहंग्राहप्रतिपत्तिर्मृषैव सा ।
तस्मान् मुख्यग्रहे नास्ति वारणावगतेरिह ॥
प्रत्ययी प्रत्ययश्चैव यदाभासौ तदर्थता ।
तयोरचितिमत्त्वाच् च चैतन्ये कल्प्यते फलम् ॥
कूटस्थेऽपि फलं योग्यं राजनीव जयादिकम् ।
तदनात्मत्वहेतुभ्यां क्रियायाः प्रत्ययस्य च ॥
आदर्शस्तु यदाभासो मुखाकारः स एव सः ।
यथैवं प्रत्ययादर्शो यदाभासस्तदा ह्यहम् ॥
इत्येवं प्रतिपत्तिः स्यात् सदस्मीति च नान्यथा ।
तत् त्वमित्युपदेशोऽपि द्वाराभावादनर्थकः ॥
श्रोतुः स्यादुपदेशश्चेदर्थवत्त्वं तथा भवेत् ।
अध्यक्षस्य न चेदिष्टं श्रोतृत्वं कस्य तद् भवेत् ॥
अध्यक्षस्य समीपे स्याद् बुद्धेरेवेति चेन् मतम् ।
न तत्कृतोपकारोऽस्ति काष्ठाद् यद्वन् न कल्प्यते ॥
बुद्धौ चेत् तत्कृतः कश्चिन् नन्वेवं परिणामिता ।
आभासेऽपि च को दोषः सति श्रुत्याद्यनुग्रहे ॥
आभासे परिणामश्चेन् न रज्ज्वादिनिभत्ववत् ।
सर्पादेश्च तथावोचमादर्शे च मुखत्ववत् ॥
नात्माभासत्वसिद्धिश्चेदात्मनो ग्रहणात् पृथक् ।
मुखादेस्तु पृथक्सिद्धिरिह त्वन्योन्यसंश्रयः ॥
अध्यक्षस्य पृथक्सिद्धावाभासस्य तदीयता ।
आभासस्य तदीयत्वे ह्यध्यक्षव्यतिरिक्तता ॥
नैवं स्वप्ने पृथक्सिद्धेः प्रत्ययस्य दृशेस्तथा ।
रथादेस्तत्र शून्यत्वात् प्रत्ययस्यात्मना ग्रहः ॥
अवगत्या हि संव्याप्तः प्रत्ययो विषयाकृतिः ।
जायते स यदाकारः स बाह्यो विषयो मतः ॥
कर्मेप्सिततमत्वात् स तद्वान् कार्ये नियुज्यते ।
आकारो यत्र चार्प्येत करणं तदिहोच्यते ॥
यदाभासेन संव्याप्तः स ज्ञातेति निगद्यते ।
त्रयमेतद् विविच्यात्र यो जानाति स आत्मवित् ॥
सम्यक्संशयमिथ्योक्ताः प्रत्यया व्यभिचारिणः ।
एकैवावगतिस्तेषु भेदस्तु प्रत्ययार्पितः ॥
आधिभेदाद् यथा भेदो मणेरवगतेस्तथा ।
अशुद्धिः परिणामश्च सर्वं प्रत्ययसंश्रयात् ॥
प्रथनं ग्रहणं सिद्धिः प्रत्ययानामिहान्यतः ।
आपरोक्ष्यात् तदेवोक्तमनुमानं प्रदीपवत् ॥
किमज्ञं ग्राहयेत् कश्चित् प्रमाणेन तु केनचित् ।
विनैव तु प्रमाणेन निवृत्त्यान्यस्य शेषतः ॥
शब्देनैव प्रमाणेन निवृत्तिश्चेदिहोच्यते ।
अध्यक्षस्याप्रसिद्धत्वाच्छून्यतैव प्रसज्यते ॥
चेतनस्त्वं कथं देह इति चेन् नाप्रसिद्धितः ।
चेतनस्यान्यतासिद्धावेवं स्यादन्यहानतः ॥
अध्यक्षः स्वयमस्त्येव चेतनस्यापरोक्षतः ।
तुल्य एवं प्रबोधः स्यादज्ञस्यासत्त्ववादिना ॥
अहमज्ञासिषं चेदमिति लोकस्मृतेरिह ।
करणं कर्म कर्ता च सिद्धास्त्वेकक्षणे किल ॥
प्रामाण्येऽपि स्मृतेः शैघ्र्याद् यौगपद्यं विभाव्यते ।
क्रमेण ग्रहणं पूर्वं स्मृतेः पश्चात् तथैव च ॥
अज्ञासिषमिदं मां चेत्यपेक्षा जायते धुर्वम् ।
विशेषोऽपेक्ष्यते यत्र तत्र नैवैककालता ॥
आत्मनो ग्रहणे चापि त्रयाणामिह संभवात् ।
आत्मन्यासक्तकर्तृत्वं न स्यात् करणकर्मणः ॥
व्याप्तुमिष्टं च यत् करतुः क्रियया कर्म तत् स्मृतम् ।
अतो हि कर्तृतन्त्रत्वं तस्येष्टं नान्यतन्त्रता ।
शब्दाद् वानुमितेर्वापि प्रमाणाद् वा ततोऽन्यतः ।
सिद्दिः सर्वपदार्थानां स्यादज्ञं प्रति नान्यथा ॥
अध्यक्षस्यापि सिद्धिः स्यात् प्रमाणेन विनैव वा ।
विना स्वस्य प्रसिद्धिस्तु नाज्ञं प्रत्युपयुज्यते ॥
तस्यैवाज्ञत्वमिष्टं चेज् ज्ञातत्वेऽन्या मितिर्भवेत् ।
अन्यस्यैवाज्ञतायां च तद्विज्ञाने ध्रुवा भवेत् ॥
ज्ञातता स्वामलाभो वा सिद्धिः स्यादन्यदेव वा ।
ज्ञातत्वेऽनन्तरक्तौ त्वं पक्षौ संस्मर्तुमर्हसि ॥
सिद्धिः स्यात् स्वात्मलाभश्चेद् यत्नस्तत्र निरर्थकः ।
सर्वलोकप्रसिद्धत्वात् स्वहेतुभ्यस्तु वस्तुनः ॥
ज्ञानज्ञेयादिवादेऽतः सिद्धिर्ज्ञातत्वमुच्यते ।
अध्यक्षाध्यक्ष्ययोः सिद्डिर्ज्ञेयत्वं नात्मलाभता ॥
स्पष्टत्वं कर्मकर्त्रादेः सिद्धता यदि कल्प्यते ।
स्पष्टतास्पष्टते स्यातामन्यस्यैव न चात्मनः ॥
अद्रष्टुर्नैव चान्धस्य स्पष्टीभावो घटस्य तु ।
कर्त्रादेः स्पष्टतेष्टा चेद् द्रष्टृताध्यक्षकर्तृका ॥
अनुभूतेः किमन्यस्मिन् स्यात् तवापेक्षया वद ।
अनुभवितरीष्टा स्यात् सोऽप्यनुभूतिरेव नः ॥
oक़् अभिन्नोऽपि हि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यतेcक़् ॥
भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते ।
सत्त्वं नाशित्वमस्याश्चेत् सकर्तृत्वं थतेष्यताम् ।
न कश्चिच् चेष्यते धर्म इति चेत् पक्षहानता ॥
नन्वस्तित्वादयो धर्मा नास्तित्वादिनिवृत्तयः ।
न भूतेस्तर्हि नाशित्वं स्वालक्षण्यं हि ते ॥
स्वलक्षणावधिर्नाशो नाशोऽनाशनिवृत्तिता ।
अगोरसत्त्वं गोत्वं ते न तु तद् गोः स्वलक्षणम् ॥
क्षणवाच्योऽपि योऽर्थः स्यात् सोऽप्यन्याभाव एव ते ।
भेदाभावेऽप्यभावस्य भेदो नामभिरिष्यते ॥
नामभेदैरनेकत्वमेकस्य स्यात् कथं तव ।
अपोहो यदि भिन्नानां वृत्तिस्तस्य कथं गवि ॥
नाभावा भेदकाः सर्वे विशेषा वा कदाचन ।
नामजात्यादयो यद्वत् संविदस्तेऽविशेषतः ॥
प्रत्यक्षमनुमानं वा व्यवहारे यदीच्छसि ।
द्रियादारकभेदैस्तदभ्युपेयं ध्रुवं भवेत् ॥
तस्मान् नीलं तथा पीतं घटादिर्वा विशेषणम् ।
संविदस्तदुपेत्यं स्याद् येन चाप्यनुभूयते ॥
रूपादीनां यथान्यः स्याद् ग्राह्यत्वाद् ग्राहकस्तथा ।
प्रत्ययसय थतान्यः स्याद् व्यञ्जकत्वाच् च दीपवत् ॥
अध्यक्षस्य दृशेः कीदृक् संबन्धः संभविष्यति ।
अध्यकृयेण तु दृश्येन मुक्त्वान्यो द्रष्टृदृश्यताम् ॥
अध्यक्षेण कृता दृष्टिर्दृश्यं व्याप्नोत्यतापि वा ।
नित्याध्यक्षकृतः दश्चिदुपकारो भवेद् धियाम् ॥
स चोक्तस्तन्निभत्वं प्राक् संव्याप्तिश्च घटादिषु ।
यथालोकादिसंव्याप्तिर्व्यञ्जकत्वाद् ध्यस्थता ॥
आलोकस्थो घटो यद्वद् बुद्ध्यारूढो भवेत् तथा ।
धीव्याप्तिः स्याद् घटारोहो धियो व्याप्तौ कर्मो भवेत् ॥
पूर्वं स्यात् प्रत्ययव्याप्तिस्ततोऽनुग्रह आत्मनः ।
कृत्स्नाध्यक्षस्य सोऽयुक्तः कालाकाशादिवत् क्रमः ॥
विषयग्रहणं यस्य कारणापेक्षया भवेत् ।
सत्येव ग्राह्यशेषे च परिणामी स चित्तवत् ॥
अध्यक्षोऽहमिति ज्ञानं बुद्धेरेव विनिश्चयः ।
नाध्यक्षस्याविशेषत्वान् न तस्यास्ति परो यतः ॥
कर्त्रा चेदहमित्येवमनुभूयेत मुक्तता ।
सुखदुःखविनिर्मोको नाहंकर्तरि युज्यते ॥
देहादावभिमानोत्थो दुःखीति प्रत्ययो ध्रुवम् ।
कुण्डलिप्रत्ययो यद्वत् प्रत्यगात्माभिमानिना ॥
बाध्यते प्रत्ययेनेह विवेकेनाविवेकवान् ।
विपर्ययेऽसदन्तं स्यात् प्रमाणस्याप्रमाणतः ॥
दाहच्छेदविनाशेषु दुःखित्वं नान्यथात्मनः ।
नैव ह्यन्यस दाहादावन्यो दुःखी भवेत् क्वचित् ॥
अस्पर्शत्वाददेहत्वान् नाहं दाह्यो यतः सदा ।
तस्मान् मिथ्याभिमानोत्थं मृते पुत्रे मृतिर्यथा ॥
कुण्डल्यहमिति ह्येतद् बाध्येतैव विवेकिना ।
दुःखीति प्रत्ययस्तद्वत् केवलाहंधिया सदा ॥
सिद्धे दुःखित्व इष्टं स्यात् तच्छकित्वं सदात्मनः ।
मिथ्याभिमानतो दुःखी तेनार्थापादनक्षयः ॥
अस्पर्शोऽपि यथा स्पर्शमचलश्चलनादि च ।
अविवेकात् तथा दुःखं मानसं चात्मनीक्षते ॥
विवेकात्मधिया दुःखं नुद्यते चल्चादिवत् ।
अविवेकस्वभावेन नमो गच्छत्यनिच्छतः ॥
तदानुदृश्यते दु;खं नैश्चल्ये नैव तस्य तत् ।
प्रत्यगात्मनि तस्मात् तद् दु;खं नैवोपपद्यते ॥
त्वंसतोर्तुल्यनीडतान् नीलाश्ववदिदं भवेत् ।
निर्दुःखवाचिना योगात् त्वंशब्दस्य तदर्थता ॥
प्रत्यगात्माभिहानेन तच्छब्दस्य युतेस्तथा ।
दशमस्त्वमसीत्येवं वाक्यं स्यात् प्रत्यफ़ात्मनि ॥
स्वार्थस्य ह्यप्रहाणेन विशिष्टार्थसमर्पकौ ।
प्रत्यगात्मावगत्यन्तौ नान्योऽर्थोऽर्थाद् विरोध्यतः ॥
नवबुद्ध्यपहाराद् धि स्वात्मानं दशपूर१अम् ।
असश्यञ् ज्ञातुमेवेच्छेत् स्वमात्मानं जनस्तथा ॥
अविद्याबद्धचक्षुष्ट्वात् कामापहृतधीः सदा ।
विविक्तं दृशिमात्मानं नेक्षते दशमं यथा ॥
दशमस्त्वमसीत्येवं तत्त्वमस्यादिवाक्यतः ।
स्वमात्मानं विजानाति कृत्स्नान्तःकरणेक्षणम् ॥
इदं पूर्वमिदं पश्चात् पदं वाद्ये भवेदिति ।
नियमो नैव वेदेऽस्ति पदसांगत्यमर्थतः ॥
वाक्ये हि श्रूयमाणानां पदानामर्थसंस्मृतिः ।
अन्वयव्यतिरेकाभ्यां ततो वाक्यार्थबोधनम् ॥
यदा नित्येषु वाक्येषु पदार्थस्तु विविच्यते ।
वाक्यार्थज्ञानसंक्रान्त्यै तदा प्रश्नो न युज्यते ॥
अन्वयव्यतिरेकोक्तिः पदार्थस्मरणाय तु ।
स्मृत्यभावे न वाक्यार्थो ज्ञातुं शक्यो हि केनचित् ॥
तत्त्वमस्यादिवाक्येषु त्वंपदार्थाविवेकतः ।
व्यज्यते नैव वाक्यार्थो नित्यमुक्तोऽहमित्यतः ॥
अन्वयव्यतिरेकोक्तिस्तद्विवेकाय नान्यथा ।
त्वंपदार्थविवेके हि पाणावर्पितविल्ववत् ॥
वाक्यार्थो व्यज्यते चैवं केवलोऽहंपदार्थतः ।
दुःखीत्येतदपोहेन प्रत्यगात्मविनिश्चयात् ॥
तत्रैवं संभवत्यर्थे श्रुतहानाश्रुतार्थधिः ।
नैवं कल्पयितुं युक्ता पदवाक्यार्थकोविदैः ॥
प्रत्यक्षादीनि बाधेरन् कृष्णलादिषु पाकवत् ।
अक्षजादिनिभैरेतैः कथं स्याद् वाक्यबाधनम् ॥
दुःख्यस्मीति सति ज्ञाने निर्दुःखीति न जायते ।
प्रत्यक्षादिनिभत्वेऽपि वाक्यान् न व्यभिचारतः ॥
स्वप्ने दुःख्यहमद्यासं दाहच्छेदादिहेतुतः ।
तत्कालभाविभिर्वाक्यैर्न बाधः क्रियते यदि ॥
समाप्तेस्तर्हि दुःखस्य प्राक् च तद्बाध इष्यताम् ।
न हि दुःखस्य संतानो भ्रान्तेर्वा दृश्यते क्वचित् ॥
प्रत्यगात्मन आत्मत्वं दुःख्यस्मीत्यस्य बाधया ।
दशमं नवमस्येव वेद चेदविरुद्धता ॥
नित्यमुक्तत्वविज्ञानं वाक्याद् भवति नान्यतः ।
वाक्यार्थस्यापि विज्ञानं पदार्थस्मृतिपूर्वकम् ॥
अन्वयव्यतिरेकाभ्यां पदार्थः स्मर्यते ध्रुवम् ।
एवं निर्दुःखमात्मानमक्रियं प्रतिपद्यते ॥
सदेवेत्यादिवाक्येभ्यः प्रमा स्फुटतरा भवेत् ।
दशमस्त्वमसीत्यस्माद् यथैवं प्रत्यगात्मनि ॥
प्रबोधेन यथा स्वाप्नं सर्वं दुःखं निवर्तते ।
प्रत्यगात्मधिया तद्वद् दुःखित्वं सर्वदात्मनः ॥
कृष्णलादौ प्रमाजन्म तदन्यार्थामृदुत्वतः ।
तत्त्वमस्यादिवाक्येषु न त्वेवमविरोधतः ॥
वाक्ये तत् त्वमसीत्यस्मिञ् ज्ञातार्थं तदसिद्वयम् ।
त्वमर्थस्मृत्यसाहाय्याद् वाक्यं नोत्पादयेत् प्रमाम् ॥
तत्त्वमोस्तुल्यनीडार्थमसीत्येतत् पदं भवेत् ।
तच्छब्दः प्रत्यगात्मार्थस्तच्छब्दार्थस्त्वमस्तथा ॥
दुःखित्वाप्रत्यगात्मत्वं वारयेतामुभावपि ।
एवं च नेतिनेत्यर्थं गमयेतां परस्परम् ॥
एवं तत् त्वमसीत्यस्य गम्यमाने फले कथम् ।
अप्रमाणत्वमस्योद्त्वा क्रियापेक्ष्त्वमुच्यते ॥
तस्मादाद्यन्तमध्येषु कुर्वित्येतद् विरोध्यतः ।
न कल्प्यमश्रुतत्वाच् च श्रुतत्यागोऽप्यनर्थकः ॥
यथानुभूयते तृप्तिर्भुजेर्वाक्यान् न गम्यते ।
वाद्यस्य विधृतिस्तद्वद् गोशकृत्पायसिक्रिय ॥
सत्यमेवमनात्मार्थे वाक्यात् पारोक्षबोधनम् ।
प्रत्यगात्मनि न त्वेवं संह्याप्राप्तिवदध्रुवम् ॥
स्वसंवेद्यत्वपर्यायः स्वप्रमाणक इष्यताम् ।
निवृत्तावह्मः सिद्धः स्वात्मनोऽनुभवश्च नः ॥
बुद्धीनां विषयो दुःखं ता यस्य विषया मताः ।
कुतोऽस्य दुःखसंबन्धो दृशेः स्यात् प्रत्यगात्मनः ॥
दृशिरेवानुभूयेत स्वेनैवानुभवात्मना ।
तदाभासतया जन्म धियोऽस्यान्भवः स्मृतः ॥
अशनायादिनिर्मुक्तः सिद्धो मोक्षस्त्वमेव सः ।
श्रोतव्यादि तवेत्येतद् विरुद्धं कथमुच्यते ॥
सेत्स्यतीत्येव चेत् तत् स्याच्छ्रवणादि तदा भवेत् ।
मोक्षस्यानित्यतैवं स्याद् विरोध्येवान्यथा वचः ॥
श्रोतृश्रोतव्ययोर्भेदो यदीष्तः स्याद् भवेदिदम् ।
इष्टार्थकोप एवं स्यान् न युक्तं सर्वथा वचः ॥
सिद्धो मोक्षोऽहमित्येवं ज्ञात्वात्मानं भवेद् यदि ।
चिकीषुर्यः स मूढात्मा शास्त्रं चोद्घाटयत्यपि ॥
न हि सिद्धस्य कर्तव्यं सकार्यस्य न सिद्धता ।
उभयालम्बनं कुर्वन्नात्मानं वञ्चयत्यसौ ॥
सिद्धो मोक्षस्त्वमित्येतद् वस्तुमात्रं प्रदर्श्यते ।
श्रोतुस्तथात्वविज्ञाने प्रवृत्तिः स्यात् कथं त्विति ॥
कर्ता दुःख्यहमस्मीति प्रत्यक्षेनानुभूयते ।
कर्ता दुःखी च मा भूवमिति यत्नो भवेत् ततः ॥
तद्विज्ञानाय युक्त्यादि कर्तव्यं श्रुतिरब्रवीत् ।
कर्तृत्वाद्यनुवादेन सिद्धत्वानुभयाय तु ॥
निर्दुःखो निष्क्रियोऽकामः सिद्धो मोक्षोऽहमित्यपि ।
गृहीत्वैवविरुद्धार्थमादध्यात् कथमेव सः ॥
सकामः सक्रियोऽसिद्ध इति मेऽनुभवः कथम् ।
अतो मे विपरीतस्य तद् भवान् वक्तुमर्हति ॥
इहैव घटते प्रश्नो न मुक्तत्वानुभूतये ।
प्रमानेन विरोधी यः सोऽत्रार्थः प्रश्नमर्हति ॥
अहं निर्मुक्त इत्येष सदसीत्यन्यमानजः ।
प्रत्यक्षाभासजन्यत्वाद् दुःखित्वं प्रश्नमर्हति ॥
पृष्टमाकाङ्क्षितं वाच्यं दुःखाभावमभीप्सितम् ।
कथं हीदं निवर्तेत दुःखं सर्वात्मना मम ॥
इति प्रश्नानुरूपं यद् वाच्यं दुःखनिवर्तकम् ।
श्रुतेः स्वात्मनि नाशङ्का प्रमाण्ये सति विद्यते ॥
तस्मादात्मविमुक्तत्वं प्रत्याययति तद्वचः ।
वक्तव्यं तु तह्तार्थं स्याद् विरोधेऽसति केनचित् ॥
इतोऽन्योऽनुभवः कश्चिदात्मनो नोपपद्यते ।
अविज्ञातं विजानतां विज्ञातारमिति श्रुतेः ॥
त्वंपदार्थविवेकाय संन्यासः सर्वकर्मणाम् ।
साधनत्वं व्रजत्येव शान्तो दान्तादिशासनात् ॥
त्वमर्थं प्रत्यगात्मानं पश्येदात्मानमात्मनि ।
वाक्यार्थं तत आत्मानं सर्वं पश्यति केवलम् ॥
सर्वमात्मेति वाक्यार्थे विज्ञातेऽस्य प्रमाणतः ।
असत्त्वे ह्यन्यमानस्य विधिस्तं योजयेत् कथम् ॥
तस्माद् वाद्यार्थविज्ञानान् नोर्ध्वं कर्मविधिर्भवेत् ।
न हि ब्रह्मास्मि कर्तेति विरुद्धे भवतो धियौ ॥
ब्रह्मास्मीति हि विद्येयं नैव कर्तेती बाध्यते ।
सकामो बद्ध इत्येवं प्रमाणाभासजातया ॥
शास्त्राद् ब्रह्मास्मि नान्योऽहमिति बुद्धिर्भवेद् दृधा ।
यदायुक्ता तदैवं धीर्यथा देहात्मधीरिति ॥
सभयादभयं प्राप्तस्तदर्थं यतते च यः ।
स पुनः सभयं गन्तुं स्वतन्त्रश्चेन् न हीच्छति ॥
यथेष्टाचरणप्राप्तिः संन्यासादिविधौ कुतः ।
पदार्थाज्नानबुद्धस्य वाद्यार्थानुभवार्थिनः ॥
अतः सर्वमिदं सिद्धं यत् प्रागस्माभिरीर्तम् ॥
यो हि यस्माद् विरक्तः स्यान् नासौ तस्मै प्रवर्तते ।
लोकत्रयाद् विरक्त्वान् मुम्क्षुः किमितीहते ॥
क्षुधया पिड्यमानोऽपि न विषं ह्यत्तुमिच्छति ।
मिष्टान्नध्वस्ततृड् जानन् नामूढस्तज् जिघत्सति ॥
वेदान्तवाक्यपुष्पेभ्यो ज्ञानामृतमधूत्तमम् ।
उज्जहारालिवद् यो नस्तस्मै सद्गुरवे नमः ॥
प्रयुज्य तृष्णाज्वरनाशकारणं चिकित्सितं ज्ञानविरागभेषजम् ।
न याति कामज्वरसन्निपातजां शरीरमालाशतयोगदुःखिताम् ॥
अहं ममेति त्वमनर्थमीहसे परार्थमिच्छन्ति तवान्य ईहितम् ।
न तेऽर्थबोधो न हि मेऽस्ति चार्थिता ततश्च युक्तः शम एव ते मनः ॥
यतो न चान्यः परमात् सनातनात् सदैव तृप्तोऽहमतो न मेऽर्थिता ।
सदैव मुक्तश्च न कामये हितं यतस्व चेतः प्रशमाय तेऽधिकम् ॥
षडूर्मिमालाभ्यतिवृत्त एव यः स एव चात्मा जगतश्च नः श्रुतेः ।
प्रमाणतश्चापि मया प्रवेद्यते मुधैव तस्माच् च मनस्तवेहितम् ॥
त्वयि प्रशान्ते न हि सास्ति भेदधीर्यतो जगन् मोहमुपैति मायया ।
ग्रहो हि मायाप्रभवस्य कारणं ग्रहाद् विमोके न हि सास्ति कस्यचित् ॥
न मेऽस्ति मोहस्तव चैष्टितेन हि प्रबुद्धतत्त्वस्त्वसितो ह्यविक्रियः ।
न पूर्वतत्त्वोत्तरभेदता हि नो वृथैव तस्माच् च मनस्तवेहितम् ॥
यतश्च नित्योऽहमतो न चान्यथा विकारयोगे हि भवेदनित्यता ।
सदा प्रभातोऽहमतो हि चाद्वयो विकल्पितं चाप्यसदित्यवस्थितम् ॥
अभावरूपं त्वमसीह हे मनो निरीक्ष्यमाणे न हि युक्तितोऽस्तिता ।
सतो ह्यनाशादसतोऽप्यजन्मतो द्वयं च तेऽतस्तव नास्तितेष्यते ॥
द्रष्टा च दृश्यं च तथा च दर्शनं भ्रमः स सर्वस्तव कल्पितो हि सः ।
दृशेश्च भिन्नं न हि दृश्यमीक्ष्यते स्वपन् विबोधे च तथा न भिद्यते ॥
विकल्पना चापि तथाद्वया भवेदवस्तुयोगात् तदलातचक्रवत् ।
न शक्तिभेदोऽस्ति यतो न चात्मनां ततोऽद्वयत्वं श्रुतितोऽवसीयते ॥
मिथश्च भिन्ना यदि ते हि चेतनाः क्षयस्तु तेषां परिमाणयोगतः ।
ध्रुवो भवेद् भेदवतां हि दृष्टतो जगत्क्षयश्चापि समस्तमोक्षतः ॥
न मेऽस्ति कश्चिन् न च सोऽस्मि कस्यचिद् यतोऽद्वयोऽहं न हि चास्ति कल्पितम् ।
अकल्पितश्चास्मि पुरा प्रसिद्धितो विकल्पनाया द्वयमेव कल्पितम् ॥
विकल्पना चाप्यभवे न विद्यते सदन्यदित्येवमतो न नास्तिता ।
यतः प्रवृत्ता तव चापि कल्पना पुरा प्रसिद्धेर्न च तद् विकल्पितम् ॥
असद् द्वयं तेऽपि हि यद् यदीक्षते न दृष्टमित्येव न चैव नास्तिता ।
यतः प्रवृत्ता सदसद्विकल्पना विचारवच् चापि तथाद्वयं च सत् ॥
सदभ्युपेतं भवतोपकल्पितं विचारहेतोर्यदि तस्य नास्तिता ।
विचारहानाच् च तहैव संस्थितं न चेत् तदिष्टं नितरां सदिष्यते ॥
असत्समं चैव सदित्यपीति चेदनर्थवत्त्वात् खरशृङ्गतुल्यतः ।
अनर्थवत्त्वं त्वसति ह्यकारणं न चैव तस्मान् न विपर्ययेऽन्यथा ॥
असिद्धतश्चापि विचारकारणाद् द्वयं च तस्मात् प्रसृतं हि मायया ।
श्रुतेः स्मृतेश्चापि तथा हि युक्तितः प्रसिद्ध्यतीत्थं न तु युज्यतेऽन्यथा ॥
विकल्पनाच् चापि विधर्मकं श्रुतेः पुरा प्रसिद्धेश्च विकल्पितंऽद्वयम् ।
न चेति नेतीति तथा विकल्पितं निषिध्यतेऽत्राप्यवशेषसिद्धये ॥
अकल्पितेऽप्येवमजाद्वयाक्षरे विकल्पयन्तः सदसच् च जन्मभिः ।
स्वचित्तमायाप्रभवं च ते भवं जरां च मृत्युं च नियान्ति संततम् ॥
भवाभवत्वं तु न चेदवस्थितिर्न तस्य चान्यस्त्विति जन्म नान्यथा ।
सतो ह्यसत्त्वादसतश्च सत्त्वतो न च क्रिया कारकमित्यतोऽप्यजम् ॥
अकुर्वदिष्टं यदि वास्य कारकं न किंचिदन्यन् ननु नास्त्यकारकम् ।
सतो विशेषादसतश्च सच्च्युतौ तुलान्तयोर्यद्वदनिश्चयान् न हि ॥
न चेत् स इष्टः सदसद्विपर्ययः कथं भवः स्यात् सदसद्व्यवस्थितौ ।
विभक्तमेतद् द्वयमप्यवस्थितं न जन्म तस्माच् च मनो हि कस्यचित् ॥
अथाभ्युपेत्यापि भवं तवेच्छतो ब्रवीमि नार्थस्तव चेष्टितेन मे ।
न हानवृद्धी न यतः स्वतोऽसतो भवोऽन्यतो वा यदि वास्तिता तयोः ॥
ध्रुवा ह्यनित्याश्च न चान्ययोगिनो मिथश्च कार्यं न च तेषु युज्यते ।
अतो न कस्यापि हि किंचिदिष्यते स्वयं हि तत्त्वं न निरुक्तिगोचरम् ॥
समं तु तस्मात् सततं विभातवद् द्वयाद् विमुक्तं सदसद्विकल्पितात् ।
निरीक्ष्य युक्त्या श्रुतितश्च बुद्धिमानशेषनिर्वाणमुपैति दीपवत् ॥
अवेद्यमेकं यदनन्यवेदिनां कुतार्किकाणां च सुवेद्यमन्यथा ।
निरीक्ष्य चेत्थं त्वगुणग्रहोऽगुणं न याति मोहं ग्रहदोषमुक्तितः ॥
अतोऽन्यथा न ग्रहनाश इष्यते विमोहबुद्धेर्ग्रह एव कारणम् ।
ग्रहोऽप्यहेतुर्ह्यनलस्त्वनिन्धनो यथा प्रशान्तिं परमां तथा व्रजेत् ॥
विमथ्य वेदोदधितः समुद्धृतं सुरैर्महाब्धेस्तु यथा महात्मभिः ।
तथाऽमृतं ज्ञानमिदं हि यैः पुरा नमो गुरुभ्यः परमिक्षितं च यैः ॥
(Prose SectionsI-III)
अथ मोक्षसाधनोपदेशविधिं व्याख्यास्यामो मुमुक्षूणां
श्रद्दधानानामर्थिनामर्थाय ॥ १॥
तदिदं मोक्षसाधनं ज्ञानं साधनसाध्यादनित्यात् सर्वस्माद् विरक्ताय त्यक्तपुत्रवित्तलोकैषणाय प्रतिपन्नपरमहंसपारिव्राज्याय शमदमदयादियुक्ताय शास्त्रप्रसिद्धशिष्यगुणसम्पन्नाय शुचये ब्राह्मणाय विधिवदुपसन्नाय शिष्याय जातिकर्मवृत्तविद्याधिजनैः परीक्षिताय ब्रूयात् पुनः पुनर्यावद् ग्रहणं दृढीभवति ॥ २॥
श्रुतिश्च -- oक़् परीक्ष्य ... तत्त्वतो ब्रह्मविद्यांcक़् इति ।
दृढगृहीता हि विद्यात्मनः श्रेयसे सन्तत्यै च भवति । विद्यासन्ततैश्च
प्राण्यनुग्रहाय भवति नौरिव नदीं तितीर्षोः । शास्त्रं च -- oक़् यद्यपि
अस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूयःcक़् इति
। अन्यथा च ज्ञानप्राप्त्यभावात् -- oक़् आचार्यवान् पुरुषो वेदcक़् oक़्
आचार्याद् धैव विद्या विदिता (साधिष्ठं प्रापत्) cक़् oक़् आचार्यः प्लावयिता
तस्य (सम्यग्) ज्ञानं प्लव इहोच्यतेcक़् इत्यादिश्रुतिभ्यः स्मृतिभ्यश्च ॥
३॥
शिष्यस्य ज्ञानग्रहणं च लिन्गैर्बुद्ध्वा तदग्रहणहेतूनधर्मलौकिकप्रमादनित्यानित्य(वस्तु) विवेकविषयासंजातदृढपूर्वश्रुतत्वलोकचिन्तावेक्षणजात्याद्यभिमानादींस्तत् प्रतिपक्षैः श्रुतिस्मृतिविहितैरपनयेदक्रोधादिभिरहिंसादिभिश्च यमैर्ज्ञानाविरुद्धैश्च नियमैः ॥ ४॥
अमानित्वादिगुणं च ज्ञानोपायं सम्यग् ग्राहयेत् ॥ ५॥
आचार्याश्चोहापोहग्रहणधारणशमदमदयानुग्रहादिसम्पन्नो लब्धागमो दृष्टादृष्टभोगेष्वनासक्तस्त्यक्तसर्वकर्मसाधनो ब्रह्मविद् ब्रह्मणि स्थितोऽभिन्नवृत्तो दम्भदर्पकुहकशाठ्यमायामात्सर्यानृताहंकारममत्वादिदोषवर्जितः केवलपरानुग्रहप्रयोजनो विद्योपयोगार्थी पूर्वमुपदिशेत् -- oक़् सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयंcक़् oक़् यत्र नान्यत् पश्यतिcक़् oक़् आत्मा वा इदमेक एवाग्र आसीत्cक़् oक़् सर्वं खल्विदं ब्रह्मcक़् इत्य्(आद्यः) आत्मैकत्वप्रतिपादनपराः श्रुतीः ॥ ६॥
उपदिश्य च ग्राहयेद् ब्रह्मणो लक्षणं -- oक़् य आत्मापहतपाप्माcक़् oक़् यत् साक्षादपरोक्षाद् ब्रह्मcक़् oक़् योऽनात्म्येcक़् oक़् स वा एषःcक़् oक़् अप्राणो ह्यमनाःcक़् oक़् सबाह्याभ्यन्तरो ह्यजःcक़् oक़् विज्ञानघन एवcक़् oक़् अनन्तरमबाह्यंcक़् oक़् अन्यदेव तद् विदितादथो अविदितात्cक़् oक़् आकाशो वै नामcक़् इत्यादिश्रुतिभिः ॥ ७॥
स्मृतिभिश्च -- oक़् न जायते म्रियते वाcक़् oक़् नादत्ते कस्यचित् पापंcक़् oक़् यथाकाशस्थितो नित्यंcक़् oक़् क्षेत्रज्ञां चापि मां विद्धिcक़् oक़् न सत् तन् नासदुच्यतेcक़् oक़् अनादित्वान् निर्गुणत्वात्cक़् oक़् समं सर्वेषु भूतेषुcक़् oक़् उत्तमः पुरुषःcक़् इत्यादिभिः श्रुत्युक्तलक्षणाविरुद्धाभिः परमात्मासंसारित्वप्रतिपादनपराभिः तस्य सर्वेणानन्यत्वप्रतिपादनपराभिश्च ॥ ८॥
एवं श्रुतिस्मृतिभिर्गृहितपरमात्मलक्षणं शिष्यं संसारसागरादुत्तितीषुं पृच्छेत् -- कस्त्वमसि सोम्येति ॥ ९॥
स यदि ब्रूयात् -- ब्राह्मणपुत्रोऽदोन्वयो ब्रह्मचार्यासं गृहस्थो वेदानीमस्मि परमहंसपरिव्राट् संसारसागराज् जन्ममृत्युमहाग्रहादुत्तितीषुरिति ॥ १०॥
आचार्यो ब्रूयाद् -- इहैव ते सोम्य मृतस्य शरीरं वयोभिरद्यते मृद्भावं वापद्यते तत्र कथं संसारसागरादत्तर्तुमिच्छसीति ॥ ११॥
स यदि ब्रूयात् -- अन्योऽहं शरीरात् । शरीरं तु जायते म्रियते वयोभिरद्यते मृद्भावमापद्यते शस्त्राग्न्यादिभिश् च विनाश्यते व्याध्याधिभिश्च युज्यते । तस्मिन्नहं स्वस्वकृतधर्माधर्मवशात् पक्षी नीदमिव प्रविष्टः पुनः पुनः शरीरविनाशे धर्माधर्मवशाच्छरीरान्तरं यास्यामि पूर्वनीडविनाशे पक्षीव नीडान्तरम् । एवमेवाहमनादौ संसारे देवतिर्यञ्मनुष्यनिरयस्थानेषु स्वकर्मवशादुपात्तं शरीरं त्यजन् नवं नवं चान्यदुपाददानो जन्ममरणप्रबन्धचक्रे घटीयन्त्रवत् स्वकर्मणा भ्राम्यमाणः क्रमेणेदं शरीरमासाद्य संसारचक्रभ्रमणादस्मान् निर्विण्णो भगवन्तमुपसन्नोऽस्मि संसारचक्रभ्रमणप्रशमायेति । तस्मान् नित्य एवाहं शरीरादन्यः । शरीराण्यागच्छन्त्यपगच्छन्ति च वासांषीव पुरुषस्येति ॥
१२॥
आचार्यो ब्रूयात् -- साध्ववाधीः सम्यक् पश्यसि । कथं मृषावाधीः ब्राह्मणपुत्रोऽदोन्वयो ब्रह्मचर्यासं गृहस्थो वा इदानीमस्मि परमहंसपरिव्राडिति ॥ १३॥
स यदि ब्रूयात् -- भगवन्, कथमहं मृषावादिषमिति ॥ १४॥
तं प्रति ब्रूयादाचार्यः -- यतस्त्वं भिन्नजात्यन्वयसंस्कारं शरीरं जात्यन्वयसंस्कारवर्जितस्यात्मनः प्रत्यज्ञासीर्ब्राह्मणपुत्रोऽदोन्वय इत्यादिना वाक्येनेति ॥ १५॥
स यदि पृच्छेत् -- शृणु सोम्य यथेदं शरीरं त्वत्तो भिन्नं
भिन्नजात्यन्वयसंस्कारं त्वं च जात्यन्वयसंस्कारवर्जित इत्युक्त्वा तं
स्मारयेत् -- स्मर्तुमर्हसि सोम्य परमात्मानं सर्वात्मानं यथोक्तलक्षणं
श्रावितोऽसि oक़् सदेव सोम्येदंcक़् इत्यादि(भिः) श्रुतिभिः स्मृतिभिश्च ।
लक्षणं च तस्य श्रुतिभिः स्मृतिभिश्च ॥ १७॥
लब्धपरमात्मलक्षणस्मृतये ब्रूयात् -- योऽसावाकाशनामा नामरूपाभ्यामर्थान्तरभूतोऽशरीरोऽस्थूलादिलक्षणोऽपहतपाप्मत्वादिलक्षण् अश्च सर्वैः संसारधर्मैरनागन्धितः oक़् यत् साक्षादपरोक्षाद् ब्रह्म ... एष त आत्मा सर्वान्तरःcक़् oक़् अदृष्टो द्रष्टा अश्रुतः श्रोता अमतो मन्ता अविज्ञातो विज्ञाताcक़् नित्यविज्ञानस्वरूपोऽनन्तरोऽबाह्यः oक़् विज्ञानघन एवcक़् परिपूर्ण आकाशवतनन्तशक्तिः आत्मा सर्वस्य, अशनायादिवर्जितः, आविर्भावतिरोभाववर्जितश्च स्वात्मविलक्षणयोर्नामरूपयोर्जगद्बीजभूतयोः स्वात्मस्थयोः तत्त्वान्यत्वाभ्यामनिर्वचनीययोः स्वसंवेद्ययोः सद्भावमात्रेणाचिन्त्यशक्तित्वाद् व्याकर्ताव्याकृतयोः ॥ १८॥
ते नामरूपेऽव्याकृते सति व्याक्रियमाणे तस्मादेतस्मादात्मन आकाशनामाकृती संवृत्ते । तच् चाकाशाख्यं भूतमनेन प्रकारेण परमात्मनः सम्भूतं प्रसन्नात् सलिलान् मलमिव फेनम् । न सलिलं न च सलिलादत्यन्तभिन्नं फेनम् । सलिलव्यतिरेकेणदर्शनात् । सलिलं तु स्वच्छमन्यत् फेनान् मलरूपात् । एवं परमात्मा नामरूपाभ्यामन्यः फेनास्थानीयाभ्यां शुद्धः प्रसन्नस्तद्विलक्षणः । ते नामरूपेऽव्याकृते सती व्याक्रियमाणे फेनस्थानीये आकाशनामाकृती संवृत्ते ॥ १९॥
ततोऽपि स्थूलभावमापद्यमाने नामरूपे व्याक्रियमाणे वायुभावमापद्येते
ततोऽप्यग्निभावमग्नेरभावं ततः पृथ्वीभावमित्येवंक्रमेण
पूर्वपूर्वो(त्तरो) त्तरानुप्रवेशेन पञ्चमहाभूतानि पृथिव्यन्तान्युत्पन्नानि ।
ततः पञ्चमहाभूतगुणविशिष्टा पृथ्(इ) वी । पृथ्(इ) व्याश्च पञ्चात्मक्यो
व्रीहियवाद्या ओषधयो जायन्ते । ताभ्यो भक्षिताभ्यो लोहितं शुक्रं च
स्त्रीपुंसशरीरसंबन्धि जायते । तदुभयं
ऋतुकालेऽविद्याप्रयुक्तकामखजनिर्मथनोद्भूतं मन्त्रसंस्कृतं गर्भाशये
निषिच्यते । तत् स्वयोनिरसानुप्रवेशेन विवर्धमानं गर्भीभूतं दशमे
नवमे वा मासि सञ्जायते ॥ २०॥
तज्जातं लब्धनामाकृतिकं जातकर्मादिभिर्मन्त्रसंस्कृतं पुनरुपनयनसंस्कारयोगेन गृहस्थसंज्ञं भवति । तदेव शरीरं पत्नीसंयोगसंस्कारयोगेन गृहस्थसंज्ञं भवति । तदेव वनस्थसंस्कारेण तापससंज्ञं भवति । तदेव क्रियाविनिवृत्तिनिमित्तसंस्कारेण परिव्राट्संज्ञं भवति । इत्येवं त्वत्तो भिन्नं भिन्नजात्यन्वयसंस्कारं शरीरम् ॥ २१॥
मनश्चेन्द्रियाणि च नामरूपात्मकान्येव oक़् अन्नमयं हि सोम्य मनःcक़् इत्यादिश्रुतिभ्यः ॥ २२॥
कथं चाहं भिन्नजात्यन्वयसंस्कारवर्जित इत्येतच्छृणु । योऽसौ नामरूपयोर्व्याकर्ता नामरूपधर्मविलक्षणः स एव नामरूपे व्याकुर्वन् सृष्ट्वेदं शरीरं स्वयं संस्कारधर्मवर्जितो नामरूप इह प्रविष्टोऽन्यैरदृष्टः स्वयं पश्यंस्तथाऽश्रुतः शृण्वन्नमतो मन्वानोऽविज्ञातो विजानं -- oक़् सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यदास्तेcक़् इति । अस्मिन्नर्थे श्रुतयः सहस्रशः oक़् तत् सृष्ट्वा तदेवानुप्राविशत्cक़् oक़् अन्तः प्रविष्टः शास्ता जनानांcक़् oक़् स एष इह प्रविष्टःcक़् oक़् एष त आत्माcक़् oक़् स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यतcक़् oक़् एष सर्वेषु भूतेषु गूढोऽत्माcक़् oक़् सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवताःcक़् oक़् अशरीरं शरीरेषुcक़् इत्याद्याः ॥ २३॥
स्मृतयोऽपि oक़् आत्मैव देवताः सर्वाःcक़् oक़् नवद्वारे पुरे देहीcक़् oक़् क्षेत्रज्ञं चापि मां विद्धिcक़् oक़् समं सर्वेषु भूतेषुcक़् oक़् उपद्रष्टानुमन्ता चcक़् oक़् उत्तमः पुरुषस्त्वन्यःcक़् इत्याद्याः । तस्माज् जात्यन्वयसंस्कारवर्जितस्त्वमिति सिद्धम् ॥ २४॥
स यदि ब्रूयात् -- अन्य एवाहमज्ञः सुखी दुःखी बद्धः संसारी, अन्योऽसौ मद्विलक्षणोऽसंसारी देवः, तमहं बल्युपहारनमस्कारादिभिर्वर्णश्रमकर्मभिश्चाराध्य संसारसागरादुत्तितीर्षुरस्मि कथमहं स एवेति ॥ २५॥
आचार्यो ब्रूयात् -- नैवं सोम्य प्रतिपत्तुमर्हसि प्रतिषिद्धत्वाद् भेदप्रतिपत्तेः । कथं प्रतिषिद्धा भेदप्रतिपत्तिरित्यत आह -- oक़् अन्योऽसावन्योऽहमस्मीति न स वेदcक़् oक़् मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिcक़् इत्येवमाद्याः ॥ २६॥
एता एव श्रुतयो भेदप्रतिपत्तेः संसारगमनं दर्शयन्ति ॥ २७॥
अभेदप्रतिपत्तेश्च मोक्षं दर्शयन्ति सहस्रशः -- oक़् स आत्मा तत् त्वमसिcक़् इति परमात्मभावं विधाय oक़् आचार्यवान् पुरुषो वेदcक़् इत्युक्त्वा oक़् तस्य तावदेव चिरंcक़् इति मोक्षं दर्शयन्त्यभेदविज्ञानादेव सत्यसन्धस्यातस्करस्येव दाहाद्यभावदृष्टान्तेन संसाराभावं दर्शयन्ति भेददर्शनादसत्याभिसन्धस्य संसारगमनं दर्शयन्ति तस्करस्येव दाहादिदृष्टान्तेन ॥ २८॥
oक़् त इह व्याघ्रो वाcक़् इत्यादिना चाभेददर्शनात् oक़् (स) स्वराड् भवतिcक़्
इत्युक्त्वा तद्विपईतेन भेददर्शनेन संसारगमनं दर्शयन्ति -- oक़् अथ
येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्तिcक़् इति प्रतिशाखम् ।
तस्मान् मृषैवावादीः -- ब्राह्मणपुत्रोऽदोन्वयः संसारी परमात्मविलक्षण
इति ॥ २९॥
तस्मात् प्रतिसिद्धत्वात् भेददर्शनस्य भेदविषयत्वाच् च कर्मोपादानस्य,
कर्मसाधनत्वाच् च यज्ञोपवीतादेः कर्मसाधनोपादानस्य
परमात्माभेदप्रतिपत्त्या प्रतिषेधः कृतो वेदितव्यः । कर्मणां
तत्साधनानां च यज्ञोपवीतादीनां परमात्माभेदप्रतिपत्तिविरुद्धत्वात् ।
संसारिणो हि कर्माणि विधीयन्ते तत्साधनानि च यज्ञोपवीतादीनि न
परमात्मनोऽभेददर्शिनः । भेददर्शनमात्रेण च ततोऽन्यत्वम् ॥ ३०॥
यदि च कर्माणि कर्तव्यानि न निवर्तयिषितानि कर्मसाधनासम्बन्धिनः कर्मनिमित्तजात्याश्रमाद्यसम्बन्धिनश्च परमात्मन आत्मनैवाभेदप्रतिपत्तिं नावक्ष्यत् oक़् स आत्मा तत् त्वमसिcक़् इत्येवमादिभिर्निश्चितरूपैर्वाक्यैर्भेदप्रतिपत्तिनिन्दां च नाभ्यधास्यत् oक़् एष नित्यो महिमा ब्राह्मणस्यcक़् oक़् अनन्वागतं पुण्येनानन्वागतं पापेनcक़् oक़् अत्र स्तेनोऽस्तेनcक़् इत्यादिना ॥ ३१॥
कर्मासम्बन्धरूपत्वं कर्मनिमित्तवर्णाद्यसम्बन्धरूपतां (च) नाभ्यधास्यत्
कर्माणि (च) कर्मसाधनानि (च) यज्ञोपवीतादीनि यद्यपरितित्याजयिषितानि ।
तस्मात् ससाधनं कर्म परित्यक्तव्यं मुमुक्षुणा परमात्माभेददर्शनविरोधात्
। आत्मा च पर एवेति प्रतिपत्तव्यो यथाश्रुत्युक्तलक्षणः ॥ ३२॥
स यदि ब्रूयात् -- भगव्न् दह्यमाने छिद्यमाने वा देहे प्रत्यक्षा वेदना, अशनायादिनिमित्तं च प्रत्यक्षं दुःखं मम । परश्चात्मा oक़् अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासःcक़् सर्वसंसारधर्मविवर्जितः श्रूयते सर्वश्रुतिषु स्मृतिषु च । कथं तद्विलक्षणोऽनेकसंसारधर्मसंयुक्तः परमात्मानमात्मत्वेन मां च संसारिणं परमात्मत्वेनाग्निमिव शीतत्वेन प्रतिपद्येयम् । संसारि च सन् सर्वाभ्युदयनिःश्रेयससाधनेऽधिकृतोऽभ्युदयनिःश्रेयससाधनानि कर्माणि तत्साधननानि च यज्ञोपवीतादीनि कथं परियजेयमिति ॥ ३३॥
तं प्रति ब्रूयात् -- यदवोचो दह्यमाने वा देहे प्रत्यक्षा वेदनोपलभ्यते ममेति तदसत् । कस्मात् । दह्यमाने छिद्यमान इव वृक्ष उपलब्धुरुपलभ्यमाने कर्मणि शरीरे दाहच्छेदवेदनाया उपलभ्यमानत्वाद् दाहादिसमानाश्रयैव वेदना । यत्र हि दाहः छेदो वा क्रियते तत्रैव व्यपदिशति दाहादिवेदनां लोको न दाहाद्युपलब्धरीति । कथम् । क्व ते वेदनेति पृष्टः शिरसि मे वेदनोरस्युदर इति यत्र दाहादिस्तत्र व्यपदिशति नोपलब्धरीति । यद्युपलब्धरि वेदना स्याद् वेदनानिमित्तं वा दाहच्छेदादि वेदनाश्रयत्वेनोपदिशेद् दाहाद्याश्रयवत् ॥ ३४॥
स्वयं च नोपलभ्येत चक्षुर्गतरूपवत् । तस्माद्
दाहच्छेदादिसमानाश्रयत्वेनोपलभ्यमानत्वाद् दाहादिवत् कर्मभूतैव वेदना ।
भावरूपत्वाच् च साश्रया तण्डुलपाकवत् । वेदनासमानाश्रय एव तत्संस्कारः ।
स्मृतिसमानकाल एवोपलभ्यमानत्वात् । वेदनाविषयस्तन्निमित्तविषयश्च
द्वेषोऽपि संस्कारसमानाश्रय एव । तथा चोक्तं -- oक़् रूपसंस्कारतुल्याधि
रागद्वेषौ भयं च यत् । गृह्यते धीश्रयं तस्माज् ज्ञाता शुद्धोऽभयः
सदाcक़् ॥ ३५॥
किमाश्रयः पुना रूपादिसंस्कारादय इति । उच्यते । यत्र कामादयः । क्व पुनस्ते
कामादयः । oक़् कामः सङ्कल्पो विचिकित्साcक़् इत्यादिश्रुतेर्बुद्धावेव ।
तत्रैव रूपादिसंस्कारादयोऽपि oक़् कस्मिन् नु रूपाणि प्रतिष्ठितानीति
हृदयेcक़् इति श्रुतेः । oक़् कामा येऽस्य हृदि श्रिताःcक़् oक़् तीर्णो हिcक़्
oक़् असङ्गो ह्ययंcक़् oक़् तद् वा अस्यैतदतिच्छन्दाःcक़्
इत्यादिश्रुतिशतेभ्यः oक़् अविकार्योऽयमुच्यतेcक़् oक़् अनादित्वान् निर्गुणत्वात्cक़्
इत्यादि -- इच्छाद्वेषादि च क्षेत्रस्यैव विषयस्य धर्मो नात्मन इति --
स्मृतिभ्यश्च कर्मस्थैवाशुद्धिर्नात्मस्था इति ॥ ३६॥
अतो रूपादिसंस्काराद्यशुद्धिसंबन्धाभावान् न परस्मादात्मनो विलक्षणस्त्वमिति प्रत्यक्षादिविरोधाभावाद् युक्तं पर एवात्माहमिति प्रतिपत्तुं -- oक़् तदात्मानमेवावेद् (अहं ब्रह्मास्मि) cक़् oक़् एकधैवानुम्द्रष्टव्यंcक़् oक़् अहमेवाधस्तात्cक़् oक़् आत्मैवाधस्तात्cक़् oक़् सर्वमात्मानं पश्येत्cक़् oक़् यत्र त्वस्य सर्वमात्मैवcक़् oक़् इदं सर्वं यदयमात्माcक़् oक़् स एषो ('कलः) cक़् oक़् अनन्तरमबाह्यंcक़् oक़् सबाह्याभ्यन्तरो ह्यजःcक़् oक़् ब्रह्मैवेदंcक़् oक़् एतया द्वारा प्रापद्यतcक़् oक़् प्रज्ञानस्य नामधेयानिcक़् oक़् सत्यं ज्ञानमनन्तं ब्रह्मcक़् oक़् तस्माद् वाcक़् oक़् तत् सृष्ट्वा तदेवानुप्रविशत्cक़् oक़् एको देवः सर्वभूतेषु गुढःcक़् oक़् अशरीरं शरीरेषुcक़् oक़् न जायते म्रियतेcक़् oक़् स्वप्नान्तं जागरितान्तंcक़् oक़् स म आत्मेति विद्यात्cक़् oक़् यस्तु सर्वाणि भूतानिcक़् oक़् तदेजति तन् नैजतिcक़् oक़् वेनस्तत् पश्यन्cक़् oक़् तदेवाग्निःcक़् oक़् अहं मनुरभवं सूर्यश्चcक़् oक़् अन्तः प्रविष्टः शास्ता जनानांcक़् oक़् सदेव सोम्यcक़् oक़् तत् सत्यं स आत्मा तत् त्वमसिcक़् इत्यादिश्रुतिभ्यः ॥
३७॥
स्मृतिभ्यश्च -- oक़् पूः प्राणिनः ... गुहाशयस्यcक़् oक़् आत्मैव देवताःcक़् oक़् नवद्वारे पुरेcक़् oक़् समं सर्वेषु भूतेषुcक़् oक़् विद्याविनयसम्पन्नेcक़् oक़् अविभक्तं विभक्तेषुcक़् oक़् वासुदेवः सर्वंcक़् इत्यादिभ्यः, एक एवात्मा परं ब्रह्म (सर्व) संसारधर्मविनिर्मुक्तस्त्वमिति सिद्धम् ॥ ३८॥
स यदि ब्रूयात् -- यदि भगवन् oक़् अनन्तरोऽबाह्यःcक़् oक़् सबाह्याभ्यन्तरो ह्यजःcक़् oक़् कृत्स्नः प्रज्ञानघन एवcक़् सैन्धवघनवदात्मा सर्वमूर्तिभेदवर्जित आकाशवदेकरसः किमिदं दृश्यते श्रूयते वा साध्यं साधनं (वा) साधकश्चेति श्रुतिस्मृतिलोकप्रसिद्धं वादिशतविप्रतिपत्तिविषय इति ॥ ३९॥
आचार्यो ब्रूयात् -- अविद्याकृतमेतद् यदिदं दृश्यते श्रूयते वा परमार्थतस्त्वेक अवात्मा अविद्यादृष्टेरनेकवदवभासते तिमिरदृष्ट्यानेकचन्द्रवत् । oक़् यत्र वान्यदिव स्यात्cक़् oक़् यत्र हि द्वैतमिव भवति इतर इतरं पश्यतिcक़् oक़् मृत्योः स मृत्युमाप्नोतिcक़् oक़् अथ यत्रानुअत् पश्यत्यन्यच्छृणोत्यन्यद् विजानाति तदल्पं ... अथ यदल्पं तन् मर्त्यंcक़् इति oक़् वाचारम्भणं विकारो नामधेयंcक़् (oक़् अनृतंcक़् ) oक़् अन्योऽसावन्योऽहंcक़् इति भेददर्शननिन्दोपपत्तेरविद्याकृतं द्वैतं oक़् एकमेवाद्वितीयंcक़् oक़् यत्र त्वस्यcक़् oक़् को मोहः कः शोकःcक़् इत्याद्येकत्वविधिश्रुतिभ्यश्चेति ॥ ४०॥
यद्येवं भगवन्, किमर्थं श्रुत्या साध्यसाधनादिभेद उच्यते उत्पत्तिः प्रलयश्चेति ॥ ४१॥
अत्रोच्यते -- अविद्यावत उपात्तशरीरादिभेदस्येष्टानिष्टयोगिनमात्मानं मन्यमानस्य साधनैरेवेष्टानिष्टप्राप्तिपरिहारोपायविवेकमजानत इष्टप्राप्तिं चानिष्टपरिहारं चेच्छतः शनैस्तद्विषयमज्ञानं निवर्तयति शास्त्रं न साध्यसाधनादिभेदं विधत्ते । अनिष्टरूपः संसारो हि स इति तद् भेददृष्टिमेवाविद्यां संसारमूलमुन्मूलयति उत्पत्तिप्रलयाद्येकत्वोपपत्तिप्रदर्शनेन ॥ ४२॥
अविद्यायामुन्मूल्तितायां श्रुतिस्मृतिन्यायेभ्यः oक़् अनन्तरमबाह्यंcक़् oक़् सबाह्याभ्यन्तरो ह्यजःcक़् सैधवघनवत् oक़् प्रज्ञानघन एवcक़् एकरस आत्मा आकाशवत् परिपूर्ण इत्यत्रैवैका प्रज्ञा प्रतिष्ठिता परमार्थदर्शिनो भवति न साध्यसाधनोत्पत्तिप्रलयादिभेदेनाशुद्धिगन्धोऽप्युपपद्यते ॥ ४३॥
तच् चैतत् परमार्थदर्शनं प्रतिपत्तुमिच्छता
वर्णाश्रमाद्यभिमानकृतपाङ्क्तरूपपुत्रवित्तलोकैषणादिभ्यो व्युत्थानं
कर्तव्यम् । सम्यक्प्रत्ययविरोधात् तदभिमानस्य
भेददर्शनप्रतिषेधार्थोपपत्तिश्चोपपद्यते । न
ह्येकस्मिन्नात्मन्यसंसारित्वबुद्धौ शास्त्रन्यायोत्पादितायां तद्विपरीता
बुद्धिर्भवति । न ह्य् अग्नौ शितत्वबुद्धिः, शरीरे वाजरामरणबुद्धिः ।
तस्मादविद्याकार्यत्वात् सर्वकर्मणां तत्साधनानां च यज्ञोपवीतादीनां
परमार्थदर्शनिष्टेन त्यागः कर्तव्यः ॥ ४४॥
इति शिष्यप्रतिबोधन(विधि) प्रकरणम् ॥ १॥
सुखमासीनं ब्राह्मणं ब्रह्मनिष्टं कश्चिद् ब्रह्मचारी जन्ममरणलक्षणात् संसारान् निर्विण्णो मुमुक्षुर्विधिवदुपसन्नः पप्रच्छ -- भगवन्, कथमहं संसारान् मोक्षिष्ये । शरीरेन्द्रियविषयवेदनावान् जागरिते दुःखमनुभवामि तथा स्वप्नेऽनुभवामि पुनः पुनः सुषुप्तिप्रतिपत्त्या विश्रम्य । किमयमेव मम स्वभावः, किं वान्यस्वभावस्य सतो नैमित्तिक इति । यदि स्वभावो न मे मोक्षाशा स्वभावस्यावर्जनीयत्वात् । अथ नैमित्तिको निमित्तपरिहारे स्यान् मोक्षोपपत्तिः ॥ ४५॥
तं गुरुरुवाच -- शृणु वत्स न तवायं स्वभावः । नैमित्तिकः ॥ ४६॥
इत्युक्तः शिष्य उवाच -- किं निमित्तम्, किं वा तस्य निवर्तिकम्, को वा मम स्वभावः, यस्मिन् निमित्ते निवर्तिते नैमित्तिकाभावः, रोगनिमित्तनिवृत्ताविव रोगी स्वभावं प्रतिपद्येयेति ॥ ४७॥
गुरुरुवाच -- अविद्या निमित्तं विद्या तस्या निवर्तिका, अविद्यायां निवर्तायां तन्निमित्ताभावान् मोक्ष्यसे जन्ममरणलक्षणात् संसारात् स्वप्नजाग्रद्दुःखं च नानुभविष्यसीति ॥ ४८॥
शिष्य उवाच -- का साविद्या किंविषया वा विद्या च काविद्यानिवर्तिका यया स्वभावं प्रतिपद्येयेति ॥ ४९॥
गुरुरुवाच -- त्वं परमात्मानं सन्तमसंसारिणं संसार्यहमस्मीति विपरीतं प्रतिपद्यसे, अकर्तारं सन्तं कर्तेति, अभोक्तारं सन्तं भोक्तेति विद्यमानं चाविद्यमानमिति, इयमविद्या ॥ ५०॥
शिष्य उवाच --यद्यप्यहं विद्यमानस्तथापि न परमात्मा ।
कर्तृत्वभोक्तृत्वलक्षणः संसारो मम स्वभावः प्रत्यक्षादिभिः
प्रमाणैरनुभूयमानत्वात् । नाविद्यानिमित्तः, अविद्यायाः
स्वात्मविषयत्वानुपपत्तेः । अविद्या नामान्यस्मिन्नन्यधर्माध्यारोपणा । यथा
प्रसिद्धं रजतं प्रसिद्धायां शुक्तिकायां यथा प्रसिद्धं पुरुषं
स्थाणावध्यारोपयति प्रसिद्धं वा स्थाणुं पुरुषे । नाप्रसिद्धं प्रसिद्धे
प्रसिद्धं वाप्रसिद्धे । न चात्मन्यनात्मानमध्यारोपयति, आत्मनोऽप्रसिद्धत्वात्
। तथात्मनमनात्मनि, आत्मनोऽप्रसिद्धत्वादेव ॥ ५१॥
तं गुरुरुवाच -- न व्यभिचारात् । न हि वत्स प्रसिद्धं प्रसिद्ध एवाध्यारोपयतीति नियन्तुं शक्यम् । आत्मन्यध्यारोपणदर्शनात् । गौरोऽहं कृष्णोऽहमिति देहधर्मस्याहंप्रत्ययविषयस्य च देहेऽयमहमस्मीति ॥
५२॥
शिष्य आह -- प्रसिद्ध एव तर्ह्यात्माहंप्रत्ययविषयतया देहश्चायमिति ।
तत्रैवं सति प्रसिद्धयोरेव देहात्मनोरितरेतराध्यारोपणा(त्)
स्थाणुपुरुषयोः शुक्तिकारजतयोरिव । तत्र कं विशेषमाश्रित्य
भगवतोक्तं प्रसिद्धयोरितरेतराध्यारोपणेति नियन्तुं न शक्यत इति ॥ ५३॥
गुरुरुवाच -- शृणु । सत्यं प्रसिद्धौ देहात्मानौ न तु स्थाणुपुरुषाविव विविक्तप्रत्ययविषयतया सर्वलोकप्रसिद्धौ । कथं तर्हि । नित्यमेव निरन्तराविविक्तप्रत्ययविषयतया । न ह्ययं देहोऽयमात्मेति विविक्ताभ्यां प्रत्ययाभ्यां देहात्मानौ गृह्णाति यतः कश्चित् । अत एव हि मोमुह्यते लोक आत्मानात्मविषये, एवमात्मा नैवमात्मेति । इमं विशेषमाश्रित्यावोचं नैवं शक्यमिति ॥ ५४॥
नन्वविद्याध्यारोपितं (यत्र) यत् तदसत् (तत्र) दृष्टं यथा रजतं
शुक्तिकायां, स्थानौ पुरुषः रज्ज्वं सर्पः, आकाशे तलमलिनत्वमित्यादि ।
तथा देहात्मनोरपि नित्यमेव निरन्तराविविक्तप्रत्ययतयेतरेतराध्यारोपणा
कृता स्यात् तदितरेतरयोर्नित्यमेवासत्त्वं स्यात् । यथा
शुक्तिकादिष्वविद्याध्यारोपितानां रजतादीनां नित्यमेवात्यन्तासत्त्वं,
तद्विपरीतानां च विपरीतेषु तद्वद् देहात्मनोरसत्त्वं प्रसज्येत ।
तच्चानिष्टं प्रत्यक्षादिविरोधात् । तस्माद् देहात्मानौ
नाविद्ययेतरेतरस्मिन्नध्यारोपितौ । कथं तर्हि । वंशस्तम्भवन्
नित्यसंयुक्तौ ॥ ५५॥
न । अनित्यत्वपरार्थत्वप्रसङ्गात् । संहतत्वात् (परार्थत्वमनित्यत्वं च) वंशस्तम्भादिवदेव । किं च यस्तु परैर्देहेन संहतः आत्मा स संहतत्वात् परार्थः । तेनासंहतः परोऽन्यो नित्यः सिद्धस्तावत् ॥ ५६॥
तस्यासंहतस्य देहे देहमात्रतयाध्यारोपितत्वेनासत्त्वानित्यत्वादिदोषप्रसङ्गो भवति । तत्र निरात्मको देह इति वैनाशिकपक्षप्राप्तिदोषः स्यात् ॥ ५७॥
न । स्वत एवात्मन आकाशस्य्येवासंहतत्वाभ्युपगमात् । सर्वेणासंहतः सन्नात्मेति न निरात्मको देहादिः सर्वः स्यात् । यथा चाकाशं सर्वेणासंहतमिति न निराकाशं भवति, एवम् । तस्मान् न वैनाशिकपक्षप्राप्तिदोषः स्यात् ॥
५८॥
यत् पुनरुक्तं देहस्यात्मन्यसत्त्वे प्रत्यक्षादिविरोधः स्यादिति । तन्न ।
प्रत्यक्षादिभिरात्मनि देहस्य सत्त्वानुपलब्धेः । न ह्यात्मनि कुण्डे बदरं
क्षिरे सर्पिः तिले तैलं भित्तौ चित्रमिव च प्रत्यक्षादिभिर्देह उपलभ्यते
। तस्मान् न प्रत्यक्षादिविरोधः ॥ ५९॥
कथं तर्हि प्रत्यक्षाद्यप्रसिद्धात्मनि देहाध्यारोपणा देहे चात्मारोपणा ॥ ६०॥
नायं दोषः । स्वभाव(प्र) सिद्धत्वादात्मनः । न हि कादाचित्कसिद्धावेवाध्यारोपणा न नित्यसिद्धाविति नियन्तुं शक्यमाकाशे तलमलाद्यध्यारोपणदर्शनात् ॥ ६१॥
किं भगव्न् देहात्मनोरितरेतराध्यारोपणा देहादिसंधातकृताथवात्मकृतेति ॥ ६२॥
गुरुरुवाच -- यदि देहादिसंघातकृता यदि वात्मकृता किं तव स्यात् ॥ ६३॥
इत्युक्तः शिष्य आह -- यद्यहं देहादिसंघातमात्रः ततो ममाचेतनत्वात् परार्थत्वमिति न मत्कृता देहात्मनोरितरेतराध्यारोपणा । अथाहमात्मा परोऽन्यः संघातात् चितिमत्त्वात् स्वर्थ इति मयैव चितिमतात्मन्यध्यारोपणा क्रियते सर्वानर्थबीजभूता ॥ ६४॥
इत्युक्तो गुरुरुवाच -- अनर्थबीजभूतां चेत् मिथ्याध्यारोपणां जानीषे मा कार्षीस्तर्हि ॥ ६५॥
नैव भगवन् शक्नोमि न कर्तुम् । अन्येन केनचित् प्रयुक्तोऽहं न स्वतन्त्र इति ॥ ६६॥
न तर्ह्यचितिमत्त्वात् स्वार्थस्त्वम् । येन प्रयुक्तोऽस्वतन्त्रः प्रवर्तसे स चितिमान् स्वार्थः संघात एव त्वम् ॥ ६७॥
यद्यचेतनोऽहं कथं सुखदुःखवेदनां भवदुक्तं च जानामि ॥ ६८॥
गुरुरुवाच -- किं सुखदुःखवेदनाया मदुक्ताच्चान्यस्त्वं किं वानन्य एवेति ॥
६९॥
शिष्य उवाच -- नाहं तावदनन्यः । कस्मात् । यस्मात् तदुभयं कर्मभूतं
घटादिमिव जानामि । यद्यनन्योऽहं तेन तदुभयं न जानीयां किं तु जानामि
तस्मादन्यः । सुखदुःखवेदनाविक्रिया च स्वार्थैव प्राप्नोति त्वदुक्तं च
स्यात् अनन्यत्वे न च तयोः स्वार्थता युक्ता । न हि
चन्दनकण्टककृते सुखदुःखे चन्न्दनकण्टकार्थे घटोपयोगो वा घटार्थः ।
तस्मात् तद्विज्ञातुर्मम चन्दनादिकृतोऽर्थः । अहं हि ततोऽन्यः
समस्तमर्थं जानामि बुद्ध्यारूढम् ॥ ७०॥
तं गुरुरुवाच -- एवं तर्हि स्वार्तस्त्वं चितिमत्त्वान् न परेण प्रयुज्यते
चितिमतश्चितिमदर्थत्वानुपपत्तेः समत्वात् प्रकाशयोरिव ।
नाप्यचितिमदर्थत्वानुपपत्तेः समत्वात् प्रकाशयोरिव । नाप्यचितिमदर्थत्वं
चितिमतो भवति अचितिमतोऽचितिमत्त्वादेव स्वार्थसंबन्धानुपपत्तेः ।
नाप्यचितिमतोरन्योन्यार्थत्वं दृष्टम् । न हि काष्ठकुड्येऽन्योन्यार्थं
कुर्वाते ॥ ७१॥
ननु चितिमत्त्वे समेऽपि भृत्यस्वामिनोरन्योन्यार्थत्वं दृष्टम् ॥ ७२॥
नैवमग्नेरुष्णप्रकाशवत् तव चितिमत्त्वस्य विवक्षितत्वात् । दर्शितश्च दृष्टान्तः प्रकाशयोरिवेति । तत्रैवं सति स्वबुद्ध्यारूढमेव सर्वमुपलभसेऽग्न्युष्णप्रकाशतुल्येन कूटस्थनित्यचितन्यस्वरूपेण । यदि चैवमात्मनः सर्वदा निर्विषेशत्वमभ्युपगच्छसि । किमित्यूचिवान् सुषुप्ते विश्रम्य विश्रम्य जाग्रत्स्वप्नयोर्दुःखमनुभवामि । किमयमेव मम स्वभावः किं वा नैमित्तिक इति च । किमसौ व्यामोहऽपगतः किं वा न ॥ ७३॥
इत्युक्तः शिष्य उवाच -- भगवनपगतस्त्वत्प्रसादाद् व्यामोहः किं तु मम
कूटस्थतायां संशयः । कथम् । शब्दादिनां स्वतःसिद्धिर्नास्ति अचेतनत्वात् ।
शब्दाद्याकारप्रत्ययोत्पत्तेस्तु तेषम् ।
प्रत्ययानामितरेतरव्यावृत्तविशेषणानां नीलपीताद्याकारवतां
स्वतःसिद्ध्यसंभवात् । तस्माद् बाह्याकारनिमित्तत्वं गम्यत इति
बाह्याकारवच्छब्दाद्याकारत्वसिद्धिः । तथा प्रत्ययानामप्यहं
प्रत्ययालम्बनवस्तुभेदानां संहतत्वादचैतन्योपपत्तेः स्वार्थत्वासंभवात्
स्वरूपव्यतिरिक्तग्राहकग्राह्यत्वेन सिद्धिः शब्दादिवदेव । असंहतत्वे सति
चैतन्यात्मकत्वात् स्वार्थोऽप्यहं प्रत्ययानां नीलपीताद्याकाराणामुपलब्धेति
विक्रियावानेव कूटस्थ इति संशयः ॥ ७४॥
तं गुरुरुवाच -- न युक्तस्तव संशयः । यतस्तेषां प्रत्ययानां नियमेनाशेषत उपल्ब्धेरेवापरिणामित्वात् कूटस्थत्वसिद्धौ निश्चयहेतुमेवाशेषचित्तप्रचारोपलब्धिं संशयहेतुमात्थ । यदि हि तव परिणामित्वं स्यातशेषस्वविषयचित्तप्रचारोपलब्धिर्न स्यात् चित्तस्येव स्वविषये यथा चेन्द्रियाणां स्वविषयेषु । न च तथात्मनस्तव स्वविषयैकदेशोपलब्धिः । अतः कूटस्थतैव तवेति ॥ ७५॥
तत्राह -- उपलब्धिर्नाम धात्व्वर्थो विक्रियैव उपलब्धुः कू३अस्थ्(आत्म्) अता चेति विरुद्धम् ॥ ७६॥
न । धात्वर्थविकॄयायामुपलब्ध्युपचारात् । यो हि बौद्धः प्रत्ययः स धात्वर्थो विक्रियात्मक आत्मन उपलब्धिशब्देनोपचर्यते । यथा छिदिक्रिया द्वैधीभावफलावसानेति धात्वर्थत्वेनोपचर्यते तद्वत् ॥ ७७॥
इत्युक्तः शिष्य आह -- ननु भगवन् मम कूटस्थत्वप्रतिपादनं प्रत्यसमर्थो दृष्टान्तः । कथम् । छिदिः छेद्यविकॄयावसानोपचर्यते यथा धात्वर्थत्वेन तथोपलब्धिशब्दोपचरितोऽपि धात्वर्थो बौद्धप्रत्यय आत्मन उपलब्द्झिविक्रियावसानश्चेन् नात्मनः कूटस्थतां प्रतिपादयितुं समर्थः ॥ ७८॥
गुरुरुवाच -- सत्यं एवं स्यात् यद्युपलब्ध्युपलब्ध्रोर्विशेषः ।
नित्योपलब्धिमात्र एव हि उपलब्धा । न तु तार्किकसमय इवान्योपलब्धिरन्य
उपलब्धा च ॥ ७९॥
ननूपलब्धिफलावसानो धात्वर्थः कथमिति ॥ ८०॥
उच्यते -- श्र्नु, उपलब्ध्याभासफलावसान इत्युक्तं किं न श्रुतं त्वया । न त्वात्मनो विक्रियोत्पादनावसान इति मयोक्तम् ॥ ८१॥
शिष्य आह -- कथं तर्हि कूटस्थे मय्यशेषस्वविषयचित्तप्रचारोपलब्धृत्वमित्यात्थ ॥ ८२॥
तं गुरुरुवाच -- सत्यमेवावोचं तेनैव कूटस्थतामब्रुवं तव ॥ ८३॥
यद्येवं भगवन् कूटस्थनित्योपलब्धिस्वरूपे मयि शब्दाद्याकारबौद्धप्रत्ययेषु मत्स्वरूपोपलब्ध्याभासफलावसानवत्सूत्पद्यमानेषु कस्त्वपराधो मम ॥ ८४॥
सत्यं नास्त्यपराधः किं त्वविद्यामात्रस्तु अपराध इति प्रागेवावोचम् ॥ ८५॥
यदि भगवन् सुषुप्त इव मम विक्रिया नास्ति कथं स्वप्नजागरिते ॥ ८६॥
तं गुरुरुवाच -- किं त्वनुभूयेते त्वया स(न्) ततम् ॥ ८७॥
बाढमनुभवामि किं त्व्विच्छिद्य विच्छिद्य न तु सन्ततम् ॥ ८८॥
(तं) गुरुरुवाच -- आगन्तुके त्वेते न तवात्मभूते । यदि तवात्मभूते
चैतन्यस्वरूपवत् स्वतःसिद्धे सन्तते एव स्याताम् । किं च स्वप्नजागरिते न
तवात्मभूते व्यभिचारित्वात् वस्त्रादिवत् । न हि यस्य यत् स्वरूपं तत्
तद्व्यभिचारि दृष्टम् । स्वप्नजागरिते तु चैतन्यमात्रत्वाद् व्यभिचरतः ।
सुषुप्ते चेत् स्वरूपं व्यभिचरेत् तन् नष्टं नास्तीति वा बाध्यमेव
स्यातागन्तुकानां अतद्धर्माणामुभयात्मकत्वदर्शनात् यथा धनवस्त्रादीनां
नाशो दृष्टः स्वप्नभ्रान्तिलब्धानां त्वभावो दृष्टः ॥ ८९॥
नन्वेवं भगवन् चैतन्यस्वरूपमप्यागन्तुकं प्राप्तं स्वप्नजागरितयोरिव सुषुप्तेऽनुपलब्धेः । अचैतन्यस्वरूपो वा स्यामहम् ॥ ९०॥
न पश्य तदनुपपत्तेः । चैतन्यस्वरूपं चेदागन्तुकं पश्यसि पश्य ।
नैतद् वर्शशतेनाप्युपपत्त्या उपपत्त्या कल्पयितुं शक्नुमो वयमन्यो
वाचैतन्योऽपि । (तस्य) संहतत्वात् पारार्थ्यमनेकत्वं नाशितत्वं च न
केनचिदुपपत्त्या वारयितुं शक्यम् । अस्वार्थस्य स्वतःसिद्ध्यभावादित्यवोचाम ।
चैतन्यस्वरूपस्य त्वात्मनः स्वतःसिद्धेरन्यानपेक्षत्वं न केनचिद् वारयितुं
शक्यमव्यभिचारात् ॥ ९१॥
ननु व्यभिचारो दर्शितो मया सुषुप्ते न पश्यामीति ॥ ९२॥
न । व्याहतत्वात् । कथं व्याघातः । पश्यतस्तव न पश्यामीति व्याहतं
वचनम् । न हि कदाचिद् भगवन् सुषुप्ते मया चैतन्यमन्यद् वा किंचिद्
दृष्टम् । पश्यंस्तर्हि सुषुप्ते त्वम् । यस्माद् दृष्टमेव प्रतिषेधसि न
दृष्टिम् । या तव दृष्टिस्तच् चैतन्यमिति मयोक्तम् । यया त्वं विद्यमानया
न किंचिद् दृष्टमिति प्रतिषेधसि सा दृष्टिस्तच् चैतन्यम् । तर्हि
सर्वत्राव्यभिचारात् कूटस्थनित्यत्वं सिद्धं स्वत एव न प्रमाणापेक्षम् ।
स्वतःसिद्धस्य हि प्रमातुरन्यस्य प्रमेयस्य परिच्छित्तिं प्रति प्रमाणापेक्षा ।
या त्वन्या नित्या परिच्छेदाय सा हि नित्यैव कूटस्था स्वयंज्योतिःस्वभावा ।
आत्मनि प्रमाणत्वे प्रमातृत्वे वा न तां प्रति प्रमाणापेक्षा तत्स्वभावत्वात् ।
यथा प्रकाशनमुष्णत्वं वा लोहोदकादिषु परतोऽपेक्ष्यतेऽग्न्यादित्यादिभ्यः
अतत्स्वभावत्वात् नाग्न्यादित्यादीनां तदपेक्षा सर्वदा तत्स्वभावत्वात् ॥ ९३॥
अनित्यत्व एव प्रमा स्यान् न नित्यत्व इति चेत् ॥ ९४॥
न । अवगतेर्नित्यत्वानित्यत्वयोर्विशेषानुपपत्तेः । न ह्यवगतेः प्रमात्वेऽनित्यावगतिः प्रमा न नित्येति विशेषोऽवगम्यते ॥ ९५॥
नियायां प्रमातुरपेक्षाभावः । अनित्यायां तु यत्नान्तरितत्वादवगतिरपेक्ष्यत इति विशेषः स्यादिति चेत् ॥ ९६॥
सिद्धा तर्ह्यात्मनः प्रमातुः स्वतःसिद्धिः प्रमाणनिरपेक्षतयैवेति ॥ ९७॥
अभावेऽप्यपेक्षाभावः नित्यत्वादिति चेत् । न । अवगतेरेवात्मनि एवात्मनि सद्भावादिति परिहृतमेतत् ॥ ९८॥
प्रमातुश्चेत् प्रमाणापेक्षासिद्धिः कस्य प्रमित्सा स्यात् । यस्य प्रमित्सा स एव
प्रमाताभ्युपगम्यते । तदीया च प्रमित्सा प्रमेयविषयैव न प्रमातृविषया
। प्रमातृविषयत्वेऽनवस्थाप्रसङ्गात् प्रमातुस्तदिच्छायाश्च तस्याप्यन्यः
प्रमाता तस्याप्यन्य इति । एवमेवेच्छायाः प्रमातृविषयत्वे ।
प्रमातुरात्मनोऽव्यवहितत्वाच् च प्रमेयत्वानुपपत्तिः । लोके हि प्रमेयं नाम
प्रमातुरिच्छास्मृतिप्रयत्नप्रमाणजन्मव्यवहितं सिद्ध्यति नान्यथावगतिः
प्रमेयविषया दृष्टा । न च प्रमातुः प्रमाता स्वस्य स्वयमेव केनचिद्
व्यवहितः कल्पयितुं शक्य इच्छादीनामन्यतमेनापि । स्मृतिश्च
स्मर्तव्यविषया न स्मर्तृविषया । तथेच्छाया इष्टविषयत्वमेव
नेच्छावद्विषयत्वम् । स्मर्त्रिच्छावद्विषयत्वेऽपि ह्युभयोरनवस्था
पूर्ववदप्रिहार्या स्यात् ॥ ९९॥
ननु प्रमातृविषयावगत्यनुत्पत्तावनवगत एव प्रमाता स्यादिति चेत् ॥ १००॥
न अवगन्तुरवगतेरवगन्तव्यविषयत्वात् । अवगन्तृविषयत्वे चानवस्था
पूर्ववत् स्यात् । अवगतिश्चात्मनि कूटस्थनित्यात्मज्योतिरन्यतोऽनपेक्षैव
सिद्धा अग्न्यादित्याद्युष्णप्रकाशवदिति पूर्वमेव प्रसाधितम् ।
अवगतेश्चैतन्यात्मज्योतिषः स्वात्मन्यनित्यत्व आत्मनः स्वार्थतानुपपत्तिः
कार्यकरण(संघात) वत् संहतत्वात् पारार्थ्यं दोषवत्त्वं चावोचाम । कथं
। चैतन्यात्मज्योतिषः स्वात्मन्यनित्यत्वे स्मृत्यादिव्यवधानात् संहतत्वम् ।
ततश्च तस्य चैतन्यज्योतिषः प्रागुत्पत्तेः प्रध्वंसाच्
चोर्ध्वमात्मन्येवाभावात् चक्षुरादीनामिव संहतत्वात् पारार्थ्यं स्यात् । यदा च
तदुत्पन्नमात्मनि विद्यते न तदात्मनः स्वार्थत्वम् । तद्भावाभावापेक्षा
ह्यात्मानात्मनोः स्वार्थत्वपरार्थत्वसिद्धिः । तस्मादात्मनोऽन्यनिरपेक्षमेव
नित्यचैतन्यज्योतिष्ट्वं सिद्धम् ॥ १०१॥
नन्वेवं सति असति प्रमातृत्वे कथं प्रमातुः प्रमातृत्वम् ॥ १०२॥
उच्यते -- प्रमाया नित्यत्वेऽनित्यत्वे च रूपविशेषाभावात् । अवगतिर्हि प्रमा । तस्याः स्मृतीच्छादिपूर्विकाया अनित्यायः कूटस्थनित्याया वा न (स्व) रूपविशेषो विद्यते । यथा धात्वर्थस्य तिष्टत्यादेः फलस्य गत्यादिपूर्वकस्यानित्यस्यापूर्वस्य नित्यस्य वा रूपविशेषो नास्तीति तुल्यो व्यपदेशो दृष्टः -- तिष्टन्ति मनुष्याः तिष्टन्ति पर्वता इत्यादि । तथा नित्यावगतिस्वरूपेऽपि प्रमातरि प्रमातृत्वव्यपदेशो न विरुध्यते फलसामान्यादिति ॥ १०३॥
अत्राह शिष्यः -- नित्यावगतिस्वरूअस्यात्मनोऽविक्रियत्वात् कार्यकरणैरसंहत्य तक्षादीनामिव वास्यादिभिः कर्तृत्वं नोपपद्यते, असंहतस्वभावस्य च कार्यकरणोपादानेऽनवस्था प्रसज्येत । तक्षादीनां तु कार्यकरणैर्नित्यमेव संहतत्वमिति वास्याद्युपादाने नानवस्था स्यादिति ॥ १०४॥
इह त्वसंहतस्वभावस्य करणानुपादाने कर्तृत्वं नोपपद्यत इति
करणमुपादेयम्, तदुपादानमपि विक्रियैवेति तत्कर्तृत्वे करणान्तरमुपादेयम्,
तदुपादानेऽप्यन्यदिति प्रमातुः स्वातन्त्र्येऽनवस्थापरिहार्या स्यात् । न च
क्रियैवात्मानं कारयति, अनिर्वर्तितायाः स्वरूपाभावात् । अथान्यदात्मानमुपेत्य
क्रियां कारयतीति चेत् । न । अन्यस्य स्वतःसिद्धत्वाविषयत्वाद्यनुपपत्तेः । न
ह्यात्मनोऽन्यदचेतनं वस्तु स्वप्रमाणकं दृष्टम् ।
शब्दादिसर्वमेवावगतिफलावसानप्रत्ययप्रमितं सिद्धं स्यात् ।
अवगतिश्चेदात्मनोऽन्यस्य स्यात् सोऽप्यात्मैवासंहतः स्वार्थः स्यान् न परार्थः
न च देहेन्द्रियविषयाणां स्वार्थः स्यान् न परार्थः । न च
देहेन्द्रियविषयाणां स्वार्थतामवगन्तुं
शक्नुमोऽवगत्यवसानप्रत्ययापेक्षसिद्धिदर्शनात् ॥ १०५॥
ननु देहस्यावगतौ न कश्चित् प्रत्यक्षादिप्रत्ययान्तरमपेक्षते ॥ १०६॥
बाढं जाग्रत्येवं स्यात् । मृतिसुषुप्त्योस्तु देहस्यापि प्रत्यक्षादिप्रमाणापेक्षयैव सिद्धिः । तथैवेन्द्रियाणाम् । बाह्या एव हि शब्दादयो देहेन्द्रियाकारपरिणता इति प्रत्यक्षादिप्रमाणापेक्षयैव (हि) सिद्धिः । सिद्धिरिति च प्रमाणफलमवगतिमवोचाम सा चावगतिः कूटस्था स्वयंसिद्धात्मज्योतिःस्वरूपेति च ॥ १०७॥
अत्राह चोदकः -- अवगतिः प्रमाणानां फलं कूटस्थनित्यात्मज्योतिस्वरूपेति च
विप्रतिषिद्धम् । इत्युक्तवन्तमाह -- न विप्रतिषिद्धम् । कथं तर्हि ।
कूटस्थनित्यापि सती प्रत्यक्षादिप्रत्ययान्ते लक्ष्यते तादर्थ्यात् ।
प्रत्यक्षादिप्रत्ययस्यानित्यत्वेऽनित्येव भव्ति । तेन प्रमाणानां
फलमित्युपचर्यते ॥ १०८॥
यद्य् एवं भगवन् कूटस्थनित्यावगतिरात्मज्योतिःस्वरूपैव स्वयंसिद्धा, आत्मनि
प्रमाणनिरपेक्षत्वात् ततोऽन्यदचेतनं संहत्यकारित्वात् परार्थम् । येन च
सुख्हदुःखमोहप्रत्ययावगतिरूपेण पारार्थ्यं तेनैव
स्वरूपेणानात्मनोऽस्तित्वं नान्येन रूपान्तरेण अतो नास्तित्वमेव परमार्थतः ।
यथा हि लोके रज्जुसर्पमरीच्युदकादीनां तदवगतिव्यतिरेकेणाभावो युक्तः ।
एवमेव भगवनवगतेरात्मज्योतिषो नैरन्तर्यभावात् कूटस्थनित्यता
अद्वैतभावश्च सर्वप्रत्ययभेदेष्वव्यभिचारात् । प्रत्ययभेदास्त्ववगतिं
व्यभिचरन्ति । यथा स्वप्ने नीलपीताद्याकारभेदरूपाः प्रत्ययास्त्ववगतिं
व्यभिचरन्ति । यथा स्वप्ने नीलपीताद्याकारभेदरूपाः प्रत्ययास्तदवगतिं
व्यभिचरन्तः परमार्थतो न सन्तीत्युच्यन्ते, एवं जाग्रत्यपि
नीलपीतादिप्रत्ययभेदास्तामेवावगतिं व्यभिचरन्तोऽसत्यरूपा भवितूमर्हन्ति ।
तस्याश्चावगतेरन्योऽवगन्ता नास्तीति न स्वेन स्वरूपेण स्वयमुपादातुं हातुं
वा शक्यते, अन्यस्य चाभावात् ॥ १०९॥
तथैवेति । एषाविद्या यन्निमित्तः संसारो जाग्रत्स्वप्नलक्षणः । तस्या अविद्याया विद्या निवर्तिका । इत्येवं त्वमभयं प्राप्तोऽसि । नान्तःपरं जाग्रत्स्वप्नदुःखमनुभविष्यसि संसाऋदुःखान् मुक्तोऽसीति ॥ ११०॥
ओमिति ॥ १११॥
इति अवगतिप्रकरणम् ॥ २ ॥
मुमुक्षूणामुपात्तपुण्यापुण्यक्षपणपराणामपुर्वानुपचयार्तिनां परिसंख्यानमिदमुच्यते । अविद्याहेतवो दोषा वाञ्मनःकायप्रवृत्तिहेतव्यः प्रवृत्तेश्चेष्टानिष्टमिश्रफलानि कर्माण्युपचीयन्त इति तन्मोक्षार्थम् ॥
११२॥
तत्र शब्दस्पर्शरूपरसगन्धानां विषयाणां श्रोतादिग्राह्यत्वात् स्वाट्मनि
परेषु वा विज्ञानाभावः तेषामेव परिणतानां यथा लोष्टादीनाम् ।
श्रोत्रादिद्वारैश्च ज्ञायन्ते । येन च ज्ञायन्ते स ज्ञातृत्वादतज्जातीयः ।
ते हि शब्दादयोऽन्योन्यसंसर्गित्वाज् जन्मवृद्धि(वि)
परिणामापक्षयनाशसंयोगवियोगाविर्भावतिरोभावविकारविकारिक्षेत्रबीजाद्यनेक्
अधर्माणः सामान्येन च सुखदुःखाद्यनेकधर्माणः । तद्विज्ञातृत्वादेव
तद्विज्ञाता सर्वशब्दादिधर्मविलक्षणः ॥ ११३॥
तत्र शब्दादिभिरुपलभ्यमानैः पीद्यमानो विद्वानेवं परिसंचक्षीत ॥ ११४॥
शब्दस्तु ध्वनिसामान्यमात्रेण विशेषधर्मैर्वा षड्जादिभिः प्रियैः, स्तुत्यादिभिरिष्टैः, अनिष्टैश्चासत्यबीभत्सपरिभवाक्रोशादिभिर्वचनैः मां दृक्स्वभावमसंसर्गिणमविक्रियमचलमनिधनमभयमत्यन्तसूक्ष्ममविषय ं गोचरीकृत्य स्प्रष्टुं नैवार्हत्यसंसर्गित्वादेव मम । अत एव न शब्दनिमित्ता हानिर्वृद्धिर्वा । अतो मां किं करिष्यति स्तुतिनिन्दादिप्रियाप्रियत्वादिलक्षणः शब्दः । अविवेकिनं हि शब्दमात्मत्वेन गतं प्रियः शब्दो वर्धयेदप्रियश्च क्षपयेतविवेकित्वात् न तु मम विवेकिनो वालाग्रमात्रमपि कर्तुमुत्सहत इति । एवमेव स्पर्शसामान्येन तद्विशेषैश्च शितोष्णमृदुकर्कशादिज्वरोदरशूलादिलक्षणैश्चाप्रियैः प्रियैश्च कैश्चिच्छरीरसमवायिभिर्बाह्यागन्तुकनिमित्तैश्च न मम काचिद् विक्रिया वृद्धिहानिलक्षणा अस्पर्शत्वात् क्रियते व्योम्न इव मुष्टिघातादिभिः । तथा रूपसामान्येन तद्विशेषैश्च प्रियाप्रियैः स्त्रीव्यञ्जनादिलक्षणैः अरूपत्वान् न मम काचिद् धानिर्वृद्धिर्वा क्रियते । तथा रससामान्येन तद्विशेषैश्च (प्रियाप्रियैः) मधुराम्ललवणकटुतिक्तकषायैर्मूढबुद्धिभिः परिगृहीतैः अरसात्मकस्य न मम काचिद् धानिर्वृद्धिर्वा क्रियते । तथा गन्धसामान्येन तद्विशेषैः प्रियाप्रियैः पुष्पाद्यनुलेपनादिलक्षणैः अगन्धात्मकस्य न मम काचिद् धानिर्वृद्धिर्वा क्रियते । oक़् अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच् च यत्cक़् इति श्रुतेः ॥ ११५॥
किं च य एव बाह्यः शब्दादयस्ते शरीराकारेण संस्थिताः तद्ग्राहकैश्च
श्रोत्राद्याकारैरन्तःकरणद्वयतद्विषयाकारेण च, अन्योन्यसंसर्गित्वात्
संहतत्वाच् च सर्वक्रियासु । तत्रैवं सति विदुषो मम न कश्चिच्
छत्रुर्मित्रमुदासीनो वास्ति । तत्र यदि (कश्चिन्) मिथ्याज्ञानाभिमानेन
प्रियमप्रियं वा प्रयुयुङ्क्षेत क्रियाफललक्षणम्, तन् मृषैव
प्रयुयुङ्क्षति सः । तस्याविषयत्वान् मम -- oक़् अव्यक्तोऽयमचिन्त्योऽयंcक़्
इति स्मृतेः । तथा (सर्वेषां) पञ्चानामपि भूतानामविकार्यः अविषयत्वात् ।
oक़् अच्छेद्योऽयमदाह्योऽयंcक़् इति स्मृतेः । यापि
शरीरेन्द्रियसंस्थानमात्रमुपलक्ष्य मद्भक्तानां विपरीतानां च
प्रियाप्रियादिप्रयुयुङ्क्षा तज्जा च धर्माधर्मादिप्राप्तिः सा तेषामेव न तु
मय्यजरेऽमृतेऽभये oक़् नैनं कृताकृते तपतःcक़् oक़् न कर्मणा
वर्धते नो कनीयान्cक़् oक़् सबाह्याभ्यन्तरो ह्यजःcक़् oक़् न लिप्यते
लोकदुःखेन बाह्यःcक़् इत्यादिश्रुतिस्मृतिभ्यः । अनात्मवस्तुनश्चासत्त्वादिति
परमो हेतुः । आत्मनश्चाद्वयत्वविषयाणि द्वयस्यासत्त्वात् यानि
सर्वाण्युपनिषद्वाक्यानि विस्तरशः समीक्षितव्यानि समीक्षितव्यानीति ॥ ११६॥
इति परिसंख्यानप्रकरणम् ॥ ३ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्याश्रीगोविन्दभगवत्पादपूज्यशिष्यस्य श्रीशंकरभगवतः कृतिः सकलवेदोपनिषत्सारोपदेशसाहस्री समाप्ता ॥ ॐ तत्सत्॥