Skip to main content

Svatmanirupanam

श्रीगुरुचरणद्वन्द्वं वन्देऽहं मथितदुःसहद्वन्द्वम् ।
भ्रान्तिग्रहोपशान्तिं पांसुमयं यस्य भसितमातनुते ॥ १॥

देशिकवरं दयालुं वन्देऽहं निहतनिखिलसन्देहम् ।
यच्चरणद्वयमद्वयमनुभवमुपदिशति तत्पदस्यार्थम् ॥ २॥

संसारदावपावकसन्तप्तः सकलसाधनोपेतः ।
स्वात्मनिरूपणनिपुणैर्वाक्यैः शिष्यः प्रबोध्यते गुरुणा ॥ ३॥

अस्ति स्वयमित्यस्मिन्नर्थे कस्यास्ति संशयः पुंसः ।
अत्रापि संशयश्चेत्संशयिता यः स एव भवसि त्वम् ॥ ४॥

नाहमिति वेत्ति योऽसौ सत्यं ब्रह्मैव वेत्ति नास्तीति ।
अहमस्मीति विजानन्ब्रह्मैवासौ स्वयं विजानाति ॥ ५॥

ब्रह्म त्वमेव तस्मान्नाहं ब्रह्मेति मोहमात्रमिदम् ।
मोहेन भवति भेदः क्लेशाः सर्वे भवन्ति तन्मूलाः ॥ ६॥

न क्लेशपञ्चकमिदं भजते कृतकोशपञ्चकविवेकः ।
अत एव पञ्च कोशान्कुशलधियः सन्ततं विचिन्वन्ति ॥ ७॥

अन्नप्राणमनोमयविज्ञानानन्दपञ्चकोशानाम् ।
एकैकान्तरभाजां भजति विवेकात्प्रकाशतामात्मा ॥ ८॥

वपुरिदमन्नमयाख्यः कोशो नात्मा जडो घटप्रायः ।
प्रागुत्पत्तेः पश्चात्तदभावस्यापि दृश्यमानत्वात् ॥ ९॥

कोशः प्राणमयोऽयं वायुविशेषो वपुष्यवच्छिन्नः ।
अस्य कथमात्मता स्यात्क्षुत्तृष्णाभ्यामुपेयुषः पीडाम् ॥ १०॥

कुरुते वपुष्यहन्तां गेहादौ यः करोति ममतां च ।
रागद्वेषविधेयो नासावात्मा मनोमयः कोशः ॥ ११॥

सुप्तौ स्वयं विलीना बोधे व्याप्ता कलेवरं सकलम् ।
विज्ञानशब्दवाच्या चित्प्रतिबिम्बो न बुद्धिरप्यात्मा ॥ १२॥

सुप्तिगतैः सुखलेशैरभिमनुते यः सुखी भवामीति ।
आनन्दकोशनामा सोऽहङ्कारः कथं भवेदात्मा ॥ १३॥

यः स्फुरति बिम्बभूतः स भवेदानन्द एव सकलात्मा ।
प्रागूर्ध्वमपि च सत्त्वादविकारित्वादबाध्यमानत्वात् ॥ १४॥

अन्नमयादेरस्मादपरं यदि नानुभूयते किञ्चित् ।
अनुभवितान्नमयादेरस्तीत्यस्मिन्न कश्चिदपलापः ॥ १५॥

स्वयमेवानुभवत्वाद्यद्यप्येतस्य नानुभाव्यत्वम् ।
सकृदप्यभावशङ्का न भवेद्बोधस्वरूपसत्तायाः ॥ १६॥

अनुभवति विश्वमात्मा विश्वेनासौ न चानुभूयेत ।
न खलु प्रकाश्यतेऽसौ विश्वमशेषं प्रकाशयन्भानुः ॥ १७॥

तदिदं तादृशमीदृशमेतावत्तावदिति च यन्न भवेत् ।
ब्राह्म तदित्यवधेयं नो चेद्विषयो भवेत्परोक्षं च ॥ १८॥

इदमिदमिति प्रतीते वस्तुनि सर्वत्र बाध्यमानेऽपि ।
अनिदमबाध्यं तत्त्वं सत्त्वादेतस्य न च परोक्षत्वम् ॥ १९॥

नावेद्यमपि परोक्षं भवति ब्रह्म स्वयम्प्रकाशत्वात् ।
सत्यं ज्ञानमनन्तं ब्रह्मेत्येतस्य लक्षणं प्रथते ॥ २०॥

सति कोशशक्त्युपाधौ सम्भवतस्तस्य जीवतेश्वरते ।
नो चेत्तयोरभावाद्विगतविशेषं विभाति निजरूपम् ॥ २१॥

सति सकलदृश्यबाधे न किमप्यस्तीति लोकसिद्धं चेत् ।
यन्न किमपीति सिद्धं ब्रह्म तदेवेति वेदतः सिद्धम् ॥ २२॥

एवं मतिरहितानां तत्त्वमसीत्यादिवाक्यचिन्तनया ।
प्रतिभात्येष परोक्षवदात्मा प्रत्यक्प्रकाशमानोऽपि ॥ २३॥

तस्मात्पदार्थशोधनपूर्वं वाक्यस्य चिन्तयन्नर्थम् ।
देशिकदयाप्रभावादपरोक्षयति क्षणेन चात्मानम् ॥ २४॥

देहेन्द्रियादिधर्मानात्मन्यारोपयन्नभेदेन ।
कर्तृत्वाद्यभिमानी बोधः स्यात्त्वम्पदस्य वाच्योऽर्थः ॥ २५॥

देहस्य चेन्द्रियाणां साक्षी तेभ्यो विलक्षणत्वेन ।
प्रतिभाति योऽवबोधः प्रोक्तोऽसौ त्वम्पदस्य लक्ष्योऽर्थः ॥ २६॥

वेदावसानवाचा संवेद्यं सकलजगदुपादानम् ।
सर्वज्ञताद्युपेतं चैतन्यं तत्पदस्य वाच्योऽर्थः ॥ २७॥

विविधोपाधिविमुक्तं विश्वातीतं विशुद्धमद्वैतम् ।
अक्षरमनुभववेद्यं चैतन्यं तत्पदस्य लक्ष्योऽर्थः ॥ २८॥

सामानाधिकरण्यं तदनु विशेषणविशेष्यता चेति ।
अथ लक्ष्यलक्षकत्वं भवति पदार्थात्मनां च सम्बन्धः ॥ २९॥

एकत्र वृत्तिरर्थे शब्दानां भिन्नवृत्तिहेतूनाम् ।
सामानाधिकरण्यं भवतीत्येवं वदन्ति लाक्षणिकाः ॥ ३०॥

प्रत्यक्त्वपरोक्षत्वे परिपूर्णत्वं च सद्वितीयत्वम् ।
इतरेतरं विरुद्धं तत इह भवितव्यमेव लक्षणया ॥ ३१॥

मानान्तरोपरोधान्मुख्यार्थस्यापरिग्रहे जाते ।
मुख्याविनाकृतेऽर्थे या वृत्तिः सैव लक्षणा प्रोक्ता ॥ ३२॥

निखिलमपि वाच्यमर्थं त्यक्त्वा वृत्तिस्तदन्वितेऽन्यार्थे ।
जहतीति लक्षणा स्याद्गङ्गायां घोषवदिह न ग्राह्या ॥ ३३॥

वाच्यार्थमत्यजन्त्या यस्या वृत्तेः प्रवृत्तिरन्यार्थे ।
इयमजहतीति कथिता शोणो धावतिवदत्र न ग्राह्या ॥ ३४॥

जहदजहतीति सा स्याद्या वाच्यार्थैकदेशमपहाय ।
बोधयति चैकदेशं सोऽयं द्विज इतिवदाश्रयेदेनाम् ॥ ३५॥

सोऽयं द्विज इति वाक्यं त्यक्त्वा प्रत्यक्परोक्षदेशाद्यम् ।
द्विजमात्रलक्षकत्वात्कथयत्यैक्यं पदार्थयोरुभयोः ॥ ३६॥

तद्वत्तत्त्वमसीति त्यक्त्वा प्रत्यक्परोक्षतादीनि ।
चिद्वस्तु लक्षयित्वा बोधयति स्पष्टमसिपदेनैक्यम् ॥ ३७॥

इत्थं बोधितमर्थं महता वाक्येन दर्शितैक्येन ।
अहमित्यपरोक्षयतां वेदो वेदयति वीतशोकत्वम् ॥ ३८॥

प्रायः प्रवर्तकत्वं विधिवचसां लोकवेदयोर्दृष्टम् ।
सिद्धं बोधयतोऽर्थं कथमिव तद्भवति तत्त्वमस्यादेः ॥ ३९॥

विधिरेव न प्रवृत्तिन्त जनयत्यभिलषितवस्तुबोधोऽपि ।
राजा याति सुतोऽभूदिति बोधेन प्रवर्तते लोकः ॥ ४०॥

ऐक्यपरैः श्रुतिवाक्यैरात्मा शश्वत्प्रकाश्यमानोऽपि ।
देशिकदयाविहीनैरपरोक्षयितुं न शक्यते पुरुषैः ॥ ४१॥

विरहितकाम्यनिषिद्धो विहितानुष्ठाननिर्मलस्वान्तः ।
भजति निजमेव बोधं गुरुणा किमिति त्वया न मन्तव्यम् ॥ ४२॥

कर्मभिरेव न बोधः प्रभवति गुरुणा विना दयानिधिना ।
आचार्यवान्हि पुरुषो वेदेत्यर्थस्य वेदसिद्धत्वात् ॥ ४३॥

वेदोऽनादितया वा यद्वा परमेश्वरप्रणीततया ।
भवति परमं प्रमाणं बाधो नास्ति स्वतश्च परतो वा ॥ ४४॥

नापेक्षते यदन्यद्यदपेक्षन्तेऽखिलानि मानानि ।
वाक्यं तन्निगमानां मानं ब्रह्माद्यतीन्द्रियावगतौ ॥ ४५॥

मानं प्रबोधयन्तं बोधं मानेन ये बुभुत्सन्ते ।
एधोभिरेव दहनं दग्धुं वाञ्छन्ति ते महात्मानः ॥ ४६॥

वेदोऽनादिरमुष्य व्यञ्जक ईशः स्वयम्प्रकाशात्मा ।
तदभिव्यक्तिमुदीक्ष्य प्रोक्तोऽसौ सूरिभिः प्रमाणमिति ॥ ४७॥

रूपाणामवलोके चक्षुरिवान्यन्न कारणं दृष्टम् ।
तद्वददृष्टावगतौ वेदवदन्यो न वेदको हेतुः ॥ ४८॥

निगमेषु निश्चितार्थं तन्त्रे कश्चिद्यदि प्रकाशयति ।
तदिदमनुवादमात्रं प्रामाण्यं तस्य सिध्यति न किञ्चित् ॥ ४९॥

अंशद्वयवति निगमे साधयति द्वैतमेव कोऽप्यंशः ।
अद्वैतमेव वस्तु प्रतिपादयति प्रसिद्धमपरोंऽशः ॥ ५०॥

अद्वैतमेव सत्यं तस्मिन्द्वैतं न सत्यमध्यस्तम् ।
रजतमिव शुक्तिकायां मृगतृष्णायामिवोदकस्फुरणम् ॥ ५१॥

आरोपितं यदि स्यादद्वैतं वस्त्ववस्तुनि द्वैते ।
तदयुक्तमेव यस्मात्सत्येऽध्यासो भवत्यसत्यानाम् ॥ ५२॥

यद्यारोपणमुभयोस्तद्व्यतिरिक्तस्य कस्यचिदभावात् ।
आरोपणं न शून्ये तस्मादद्वैतसत्यता ग्राह्या ॥ ५३॥

प्रत्यक्षाद्यनवगतं श्रुत्या प्रतिपादनीयमद्वैतम् ।
द्वैतं न प्रतिपाद्यं तस्य स्वत एव लोकसिद्धत्वात् ॥ ५४॥

अद्वैतं सुखरूपं दुःसहदुःखं सदा भवेद्द्वैतम् ।
यत्र प्रयोजनं स्यात्प्रतिपादयति श्रुतिस्तदेवासौ ॥ ५५॥

निगमगिरा प्रतिपाद्यं वस्तु यदानन्दरूपमद्वैतम् ।
स्वाभाविकं स्वरूपं जीवत्वं तस्य केचन ब्रुवते ॥ ५६॥

स्वाभाविकं यदि स्याज्जीवत्वं तस्य विशदविज्ञप्तेः ।
सकृदपि न तद्विनाशं गच्छेदुष्णप्रकाशवद्वह्नेः ॥ ५७॥

यद्वदयो रसविद्धं काञ्चनतां याति तद्वदेवासौ ।
जीवः साधनशक्त्या परतां यातीति केचिदिच्छन्ति ॥ ५८॥

तदिदं भवति न युक्तं गतवति तस्मिंश्चिरेण रसवीर्ये ।
प्रतिपद्यते प्रणाशं हैमो वर्णोऽप्ययःसमारूढः ॥ ५९॥

जीवत्वमपि तथेदं बहुविधसुखदुःखलक्षणोपेतम् ।
गतमिव साधनशक्त्या प्रतिभात्येव प्रयाति न विनाशम् ॥ ६०॥

तस्मात्स्वतो यदि स्याज्जीवः सततं स एव जीवः स्यात् ।
एवं यदि परमात्मा परमात्मैवायमिति भवेद्युक्तम् ॥ ६१॥

यदि वा परेण साम्यं जीवश्चेद्भजति साधनबलेन ।
कालेन तदपि कियता नश्यत्येवेति निश्चितं सकलैः ॥ ६२॥

तस्मात्परं स्वकीयं देहं मोहात्मकं च संसारम् ।
स्वज्ञानेन ग्रसित्वा पूर्णः स्वयमेव शिष्यते नान्यत् ॥ ६३॥

सत्यं ज्ञानमनन्तं प्रकृतं परमात्मरूपमद्वैतम् ।
अवबोधयन्ति निखिलाः श्रुतयः स्मृतिभिः समं समस्ताभिः ॥ ६४॥

अद्वैतबोधकानां निखिलानां निगमवाक्यजालानाम् ।
वाक्यान्तराणि सकलान्यभिधीयन्तेऽस्य शेषभूतानि ॥ ६५॥

यस्मिन्मिहिरवदुदिते तिमिरवदपयान्ति कर्तृतादीनि ।
ज्ञानं विरहितभेदं कथमिव तद्भवति तत्त्वमस्यादेः ॥ ६६॥

कर्मप्रकरणनिष्ठं ज्ञानं कर्माङ्गमिष्यते प्राज्ञैः ।
भिन्नप्रकरणभाजः कर्माङ्गत्वं कथं भवेज्ज्ञप्तेः ॥ ६७॥

अधिकारिविषयभेदौ कर्मज्ञानात्मकावुभौ काण्डौ ।
एवं सति कथमनयोरङ्गाङ्गित्वं परस्परं घटते ॥ ६८॥

ज्ञानं कर्मणि न स्याज्ज्ञाने कर्मेदमपि तथा न स्यात् ।
तत्कथमनयोरुभयोस्तपनतमोवत्समुच्चयो घटते ॥ ६९॥

तस्मान्मोहनिवृत्तौ ज्ञानं न सहायमन्यदर्थयते ।
यद्वद्घनतरतिमिरप्रकरपरिध्वंसने सहस्रांशुः ॥ ७०॥

ज्ञानं तदेवममलं साक्षी विश्वस्य भवति परमात्मा ।
सम्बध्यते न धर्मैः साक्षी तैरेव सच्चिदानन्दः ॥ ७१॥

रज्ज्वादेरुरगाद्यैः सम्बन्धवदस्य दृश्यसम्बन्धः ।
सततमसङ्गोऽयमिति श्रुतिरप्यमुमर्थमेव साधयति ॥ ७२॥

कर्तृ च कर्म च यस्य स्फुरति ब्रह्मैव तन्न जानाति ।
यस्य न कर्तृ न कर्म स्फुटतरमयमेव वेदितुं क्रमते ॥ ७३॥

कर्तृत्वादिकमेतन्मायाशक्त्या प्रपद्यते निखिलम् ।
इति केचिदाहुरेषा भ्रान्तिर्ब्रह्मातिरेकतो नान्यत् ॥ ७४॥

तस्मिन्ब्रह्मणि विदिते विश्वमशेषं भवेदिदं विदितम् ।
कारणमृदि विदितायां घटकरकाद्या यथावगम्यन्ते ॥ ७५॥

तदिदं कारणमेकं विगतविशेषं विशुद्धचिद्रूपम् ।
तस्मात्सदेकरूपान्मायोपहितादभूदिदं विश्वम् ॥ ७६॥

कारणमसदिति केचित्कथयन्त्यसतो भवेन्न कारणता ।
अङ्कुरजननी शक्तिः सति खलु बीजे समीक्ष्यते सकलैः ॥ ७७॥

कारणमसदिति कथयन्वन्ध्यापुत्रेण निर्वहेत्कार्यम् ।
किं च मृगतृष्णिकाम्भः पीत्वोदन्यां महीयसीं शमयेत् ॥ ७८॥

यस्मान्न सोऽयमसतो वादः सम्भवति शास्त्रयुक्तिभ्याम् ।
तस्मात्सदेव तत्त्वं सर्वेषां भवति कारणं जगताम् ॥ ७९॥

जगदाकारतयापि प्रथते गुरुशिष्यविग्रहतयापि ।
ब्रह्माकारतयापि प्रतिभातीदं परात्परं तत्त्वम् ॥ ८०॥

सत्यं जगदिति भानं संसृतये स्यादपक्वचित्तानाम् ।
तस्मादसत्यमेतन्निखिलं प्रतिपादयन्ति निगमान्ताः ॥ ८१॥

परिपक्वमानसानां पुरुषवराणां पुरातनैः सुकृतैः ।
ब्रह्मैवेदं सर्वं जगदिति भूयः प्रबोधयत्येषः ॥ ८२॥

अनवगतकाञ्चनानां भूषणधीरेव भूषणे हैमे ।
एवमविवेकभाजां जगति जनानां न तात्त्विकी धिषणा ॥ ८३॥

अहमालम्बनसिद्धं कस्य परोक्षं भवेदिदं ब्रह्म ।
तदपि विचारविहीनैरपरोक्षयितुं न शक्यते मुग्धैः ॥ ८४॥

अहमिदमिति च मतिभ्यां सततं व्यवहरति सर्वलोकोऽपि ।
प्रथमा प्रतीचि चरमा निवसति वपुरिन्द्रियादिबाह्यार्थे ॥ ८५॥

वपुरिन्द्रियादिविषये याहम्बुद्धिर्महत्यसौ भ्रान्तिः ।
तद्बुद्धिरतस्मिन्नित्यध्यासत्वेन शास्यमानत्वात् ॥ ८६॥

तस्मादशेषसाक्षी परमात्मैवाहमर्थ इत्युचितम् ।
अजडवदेव जडोऽयं सत्सम्बन्धाद्भवत्यहङ्कारः ॥ ८७॥

तस्मात्सर्वशरीरेष्वहमहमित्येव भासते स्पष्टः ।
यः प्रत्ययो विशुद्धस्तस्य ब्रह्मैव भवति मुख्योऽर्थः ॥ ८८॥

गोशब्दार्थो गोत्वं तदपि व्यक्तिः प्रतीयतेऽर्थतया ।
अहमर्थः परमात्मा तद्वद्भ्रान्त्या भवत्यहङ्कारः ॥ ८९॥

दग्धृत्वादिकमयसः पावकसङ्गेन भासते यद्वत् ।
तद्वच्चेतनसङ्गादहमि प्रतिभान्ति कर्तृतादीनि ॥ ९०॥

देहेन्द्रियादिदृश्यव्यतिरिक्तं विमलमतुलमद्वैतम् ।
अहमर्थ इति विदित्वा तद्व्यतिरिक्तं न कल्पयेत्किञ्चित् ॥ ९१॥

यद्वत्सुखदुःखानामवयवभेदादनेकता देहे ।
तद्वदिहासति भेदेऽप्यनुभववैविध्यमात्मनामेषाम् ॥ ९२॥

किमिदं किमस्य रूपं कथमिदमासीदमुष्य को हेतुः ।
इति न कदापि विचिन्त्यं चिन्त्यं मायेति धीमता विश्वम् ॥ ९३॥

दन्तिनि दारुविकारे दारु तिरोभवति सोऽपि तत्रैव ।
जगति तथा परमात्मा परमात्मन्यपि जगत्तिरोधत्ते ॥ ९४॥

आत्ममये महति पटे विविधजगच्चित्रमात्मना लिखितम् ।
स्वयमेव केवलमसौ पश्यन्प्रमुदं प्रयाति परमात्मा ॥ ९५॥

चिन्मात्रममलमक्षयमद्वयमानन्दमनुभवारूढम् ।
ब्रह्मैवास्ति तदन्यन्न किमप्यस्तीति निश्चयो विदुषाम् ॥ ९६॥

व्यवहारस्य दशेयं विद्याविद्येति भेदपरिभाषा ।
नास्त्येव तत्त्वदृष्टा तत्त्वं ब्रह्मैव नान्यदस्त्यस्मात् ॥ ९७॥

अस्त्यन्यदिति मतं चेत्तदपि ब्रह्मैतदस्तितारूपम् ।
व्यतिरिक्तमस्तिताया नास्तितया शून्यमेव तत्सिद्धम् ॥ ९८॥

तत्त्वावबोधशक्त्या सुस्थितया बाधितापि सा माया ।
आदेहपातमेषामाभात्यात्मानमपि निजं विदुषाम् ॥ ९९॥

एष विशेषो विदुषां पश्यन्तोऽपि प्रपञ्चसंसारम् ।
पृथगात्मनो न किञ्चित्पश्येयुः सकलनिगमनिर्णीतात् ॥ १००॥

किं चिन्त्यं किमचिन्त्यं किं कथनीयं किमप्यकथनीयम् ।
किं कृत्यं किमकृत्यं निखिलं ब्रह्मेति जानतां विदुषाम् ॥ १०१॥

निखिलं दृश्यविशेषं दृग्रूपत्वेन पश्यतां विदुषाम् ।
बन्धो नापि न मुक्तिर्न परात्मत्वं न चापि जीवत्वम् ॥ १०२॥

असकृदनुचिन्तितानामव्याहततरनिजोपदेशानाम् ।
प्रामाण्यपरमसीम्नां निगमनमिदमेव निखिलनिगमानाम् ॥ १०३॥

इति बोधितः स गुरुणा शिष्यो हृष्टः प्रणम्य तं पदयोः ।
स्वानुभवसिद्धमर्थं स्वयमेवान्तर्विचारयामास ॥ १०४॥

अजरोऽहमक्षरोऽहं प्राज्ञोऽहं प्रत्यगात्मबोधोऽहम् ।
परमानन्दमयोऽहं परमशिवोऽहं भवामि परिपूर्णः ॥ १०५॥

आद्योऽहमात्मभाजामात्मानन्दानुभूतिरसिकोऽहम् ।
आबालगोपमखिलैरहमित्यनुभूयमानमहिमाहम् ॥ १०६॥

इहपरसुखविमुखोऽहं निजसुखबोधानुभूतिभरितोऽहम् ।
इतिमतिदूरतरोऽहं भावेतरसुखनिषक्तचित्तोऽहम् ॥ १०७॥

ईशोऽहमीश्वराणामीर्ष्याद्वेषानुषङ्गरहितोऽहम् ।
ईक्षणविषयमतीनामीप्सितपुरुषार्थसाधनपरोऽहम् ॥ १०८॥

उदयोऽहमेव जगतामुपनिषदुद्यानकृतविहारोऽहम् ।
उद्वेलशोकसागरबाडबमुखहव्यवाहनार्चिरहम् ॥ १०९॥

ऊर्जस्वलनिजविभवैरूर्ध्वमधस्तिर्यगश्नुवानोऽहम् ।
ऊहापोहविचारैरुररीकृतवत्प्रतीयमानोऽहम् ॥ ११०॥

ऋषिरहमृष्यगणोऽहं दृष्टिरहं दृश्यमानमहमेव ।
ऋद्धिरहं वृद्धिरहं तृप्तिरहं तृप्तिदीपदीप्तिरहम् ॥ १११॥

एकोऽहमेतदीदृशमेवमितिस्फुरितभेदरहितोऽहम् ।
एष्टव्योऽहमनीहैरन्तः सुकृतानुभूतिभूतोऽहम् ॥ ११२॥

ऐक्यावभासकोऽहं वाक्यपरिज्ञानपावनमतीनाम् ।
ऐशमहमेव तत्त्वं नैशतमःप्रायमोहमिहिरोऽहम् ॥ ११३॥

ओजोऽहमोषधीनामोतप्रोतायमानभुवनोऽहम् ।
ओङ्कारसारसोल्लसदात्मसुखामोदमत्तभृङ्गोऽहम् ॥ ११४॥

औषधमहमशुभानामौपाधिकधर्मजालरहितोऽहम् ।
औदार्यातिशयोऽहं विविधचतुर्वर्गवितरणपरोऽहम् ॥ ११५॥

अङ्कुशमहमखिलानां महत्तया मत्तवारणेन्द्राणाम् ।
अम्बरमिव विमलोऽहं शम्बररिपुजातविकृतिरहितोऽहम् ॥ ११६॥

अस्तविकल्पमतीनामस्खलदुपदेशगम्यमानोऽहम् ।
अस्थिरसुखविमुखोऽहं सुस्थिरसुखबोधसम्पदुचितोऽहम् ॥ ११७॥

करुणारसभरितोऽहं कबलितकमलासनादिलोकोऽहम् ।
कलुषाकृतिविधुरोऽहं कल्मषसुकृतोपलेपरहितोऽहम् ॥ ११८॥

खानामगोचरोऽहं खातीतोऽहं खपुष्पभवगोऽहम् ।
खलजनदुरासदोऽहं खण्डज्ञानापनोदनपरोऽहम् ॥ ११९॥

गलितद्वैतकथोऽहं देहीभवदखिलमूलहृदयोऽहम् ।
गन्तव्योऽहमनीहैर्गत्यागतिरहितपूर्णबोधोऽहम् ॥ १२०॥

घनतरविमोहतिमिरप्रकरप्रध्वंसभानुनिकरोऽहम् ।
घटिकावासररजनीवत्सरयुगकल्पकालभेदोऽहम् ॥ १२१॥

चरदचरदात्मकोऽहं चतुरमतिश्लाघनीयचरितोऽहम् ।
चपलजनदुर्गमोऽहं चञ्चलभवजलधिपारदेशोऽहम् ॥ १२२॥

छन्दःसिन्धुनिगूढज्ञानसुखास्वादमोदमानोऽहम् ।
छलपदविहितमतीनां छन्नोऽहं शान्तिमार्गगम्योऽहम् ॥ १२३॥

जलजासनादिगोचरपञ्चमहाभूतमूलभूतोऽहम् ।
जगदानन्दकरोऽहं जन्मजरामरणरोगरहितोऽहम् ॥ १२४॥

झङ्कृतिहुङ्कृतिशिञ्जितबृंहितमुखविविधनादभेदोऽहम् ।
झटितिघटितात्मवेदनदीपपरिस्फुरितहृदयभवनोऽहम् ॥ १२५॥

ज्ञानमहं ज्ञेयमहं ज्ञाताहं ज्ञानसाधनगणोऽहम् ।
ज्ञातृज्ञानज्ञेयविनाकृतमस्तित्वमात्रमेवाहम् ॥ १२६॥

तत्त्वातीतपदोऽहं तनुरहमस्मीति भावरहितोऽहम् ।
तामसदुरधिगमोऽहं तत्त्वम्पदबोधबोध्यहृदयोऽहम् ॥ १२७॥

दैवतदैत्यनिशाचरमानवतिर्यङ्महीधरादिरहम् ।
देहेन्द्रियरहितोऽहं दक्षिणपूर्वादिदिग्विभागोऽहम् ॥ १२८॥

धर्माधर्ममयोऽहं धर्माधर्मादिबन्धरहितोऽहम् ।
धार्मिकजनसुलभोऽहं धन्योऽहं धातुरादिभूतोऽहम् ॥ १२९॥

नामादिविरहितोऽहं नरकस्वर्गापवर्गरहितोऽहम् ।
नादान्तवेदितोऽहं नानाविधनिखिलनिगमसारोऽहम् ॥ १३०॥

परजीवभेदबाधकपरमार्थज्ञानशुद्धचित्तोऽहम् ।
प्रकृतिरहं विकृतिरहं परिणतिरहमस्मि भागधेयानाम् ॥ १३१॥

फणधरभूधरवारणविग्रहविधृतप्रपञ्चसारोऽहम् ।
फालतलोदितलोचनपावकपरिभूतपञ्चबाणोऽहम् ॥ १३२॥

बद्धो भवामि नाहं बन्धान्मुक्तस्तथापि नैवाहम् ।
बोध्यो भवामि नाहं बोधोऽहं नैव बोधको नाहम् ॥ १३३॥

भक्तिरहं भजनमहं भुक्तिरहं भुक्तिमुक्तिरहमेव ।
भूतानुशासनोऽहं भूतभवद्भव्यमूलभूतोऽहम् ॥ १३४॥

मान्योऽहमस्मि महतां मन्दमतीनाममाननीयोऽहम् ।
मदरागमानमोहितमानसदुर्वासनादुरापोऽहम् ॥ १३५॥

यजनयजमानयाजकयागमयोऽहं यमादिरहितोऽहम् ।
यमवरुणयक्षवासवराक्षसमरुदीशवह्निरूपोऽहम् ॥ १३६॥

रक्षाविधानशिक्षावीक्षितलीलावलोकमहिमाहम् ।
रजनीदिवसविरामस्फुरदनुभूतिप्रमाणसिद्धोऽहम् ॥ १३७॥

लक्षणलक्ष्यमयोऽहं लाक्षणिकोऽहं लयादिरहितोऽहम् ।
लाभालाभमयोऽहं लब्धव्यानामलभ्यमानोऽहम् ॥ १३८॥

वर्णाश्रमरहितोऽहं वर्णमयोऽहं वरेण्यगण्योऽहम् ।
वाचामगोचरोऽहं वचसामर्थेन गम्यमानोऽहम् ॥ १३९॥

शमदमविरहितमनसां शास्त्रशतैरप्यगम्यमानोऽहम् ।
शरणमहमेव विदुषां शकलीकृतविविधसंशयगणोऽहम् ॥ १४०॥

षड्भावविरहितोऽहं षड्गुणरहितोऽहमहितरहितोऽहम् ।
षट्कोशविरहितोऽहं षट् त्रिंशत्तत्त्वजालरहितोऽहम् ॥ १४१॥

संवित्सुखात्मकोऽहं समाधिसङ्कल्पकल्पवृक्षोऽहम् ।
संसारविरहितोऽहं साक्षात्कारोऽहमात्मविद्यायाः ॥ १४२॥

हव्यमहं कव्यमहं हेयोपादेयभावशून्योऽहम् ।
हरिरहमस्मि हरोऽहं विधिरहमेवास्मि कारणं तेषाम् ॥ १४३॥

क्षालितकलुषभयोऽहं क्षपितभवक्लेशजालहृदयोऽहम् ।
क्षान्ताद्यक्षरसुघटितविविधव्यवहारमूलमहमेव ॥ १४४॥

बहुभिः किमेभिरुक्तैरहमेवेदं चराचरं विश्वम् ।
शीकरफेनतरङ्गाः सिन्धोरपराणि न खलु वस्तूनि ॥ १४५॥

शरणं न भवति जननी न पिता न सुता न सोदरा नान्ये ।
परमं शरणमिदं स्याच्चरणं मम मूर्ध्नि देशिकन्यस्तम् ॥ १४६॥

आस्ते देशिकचरणं निरवधिरास्ते तदीक्षणे करुणा ।
आस्ते किमपि तदुक्तं किमतः परमस्ति जन्मसाफल्यम् ॥ १४७॥

कारुण्यसारसान्द्राः काङ्क्षितवरदानकल्पकविशेषाः ।
श्रीगुरुचरणकटाक्षाः शिशिराः शमयन्ति चित्तसन्तापम् ॥ १४८॥

कबलितचञ्चलचेतोगुरुतरमण्डूकजातपरितोषा ।
शेते हृदयगुहायां चिरतरमेकैव चिन्मयी भुजगी ॥ १४९॥

मयि सुखबोधपयोधौ महति ब्रह्माण्डबुद्बुदसहस्रम् ।
मायामयेन मरुता भूत्वा भूत्वा मुहुस्तिरोधत्ते ॥ १५०॥

गुरुकरुणयैव नावा प्राक्तनभाग्यानुकूलमारुतया ।
दुःसहदुःखतरङ्गैस्तुङ्गः संसारसागरस्तीर्णः ॥ १५१॥

सति तमसि मोहरूपे विश्वमपश्यं तदेतदित्यखिलम् ।
उदितवति बोधभानौ किमपि न पश्यामि किं न्विदं चित्रम् ॥ १५२॥

इत्यात्मबोधलाभं मुहुरनुचिन्त्य प्रमोदमानेन ।
प्रारब्धकर्मणोऽन्ते परं पदं प्राप्यते हि कैवल्यम् ॥ १५३॥

मोहान्धकारहरणं संसारोद्वेलसागरोत्तरणम् ।
स्वात्मनिरूपणमेतत्प्रकरणमन्तर्विचिन्त्यतां सद्भिः ॥ १५४॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ स्वात्मनिरूपणं सम्पूर्णम् ॥